________________
सूक्तमुक्तावली सेवेत । पुनस्तद्विलोक्य गृहीत्वा चतं कृतमहापराधंधूर्त त्वं हनिष्यसि वा त्यक्ष्यसीति ब्रूहि । ततो राजा न्यगदत्- हे प्रभो! तादृशम्पुमांसन्तु सहस्रखण्डशः कृत्वा चतुर्दिक्षु बलिमेव दास्यामि । कदाचिदपि नैव मोक्ष्यामि । पुनमुर्निना भणितम् - हे राजन् ! स वध्यः पुमान् यदि तत्राऽवसरे बहुशस्त्वामनुनयेत् निजकुटुम्बसंमिलनाय गन्तुमिहेतअर्थात् हे स्वामिन् ! निजकुटुम्ब मिलित्वा पुनरधुनैवाऽत्राऽऽगमिष्यामि साम्प्रतं मां मुञ्चेति प्रार्थयेत, तर्हि तं किङ्करिष्यसीति गुरुणा पृष्टे न्यगदद्राजा-हे स्वामिन ! महापराधिनं कदाऽपि न हास्यामि । ततो गुरुः कथयति-भोराजन्! यथासापराधं नरं निजकुटुम्बादिदर्शनाद्यर्थं त्वं न मोक्तुमर्हसि । तथैव नरकस्थजीवानपि ततोऽन्यत्र गमनाय तदधिकारिणो देवा नैव मुञ्चन्ति । अतो नरकवासिनो जीवा भृशं दुःखसागरे निमग्रा अपि पारतन्त्र्यवशादिहलोके पुत्रादिपरिवारं किमप्यात्मदुःखं सूचयितुं नागच्छन्ति।
इत्थंस केशिकुमारो गणधरो नास्तिकमतिकमपि प्रदेशिराजानं प्रतिबोधयामास । ततस्तत्याज च नास्तिकतामतिं भूपालो गतशङ्कः । समुदपद्यत महती श्रद्धा राज्ञः शावते जैनधर्मे । अङ्गीकृतवांश्च राजा श्रावकस्य द्वादशव्रतानि । ____ अथ राजा राजद्रव्यस्य चतुर्भागं कृत्वा प्रथमम्भागकोशालये स्थापितवान् । द्वितीय भागमन्तःपुररक्षणपोषणादिसम्पादनार्थं, तृतीयं भागंधर्मार्थं, चतुर्थ भागं सैन्यार्थं विहितवान् । इत्थं शुद्धधर्ममासाद्य धर्मेच मतिदाढ्यं विधाय चित्रसारथिना प्रधानेन सह गुरुं त्रिकरणशुद्ध्या वन्दित्वा निजावासम्प्राप्तवान् ।
16
-