________________
सूक्तमुक्तावली सीत् । स च मृत्वा नूनं नारकीगतिमासादितवान्, भवादृशेति तर्कयामि । सोऽप्यत्राऽऽगत्य किमप्यात्मवृत्तमद्यापि मां नाऽवोचत । तत्र किङ्कारणम् ?
___ एवं नृपेण पृष्टे सति गुरुरुवाच- हे धराधीश ! इहलोके ये पापीयांसो जायन्ते, तेषामवश्यमेव नरके तीव्रतरा महाकष्टदा वेदनाः सदैव भवन्ति । तत्र चसमागतांस्तान्जीवान् परमाधर्मिणस्तदधिकारिणो देवा भृशंदुःसहं कष्टं सञ्जनयन्ति, सदा महत्तर-क्लेशराशिमनुभवन्तस्ते जीवा अहर्निशं परतन्त्रा एव तिष्ठन्ति । कदाऽपि कुत्राऽपिगमनलपनादि कर्तुं नैव प्रभवन्ति । किञ्च हे राजन् ! परमाधर्मिणस्तदधिकारिणो देवास्तत्र गतान प्राणिनो या या वेदना अनुभावयन्ति तास्ता अधुना कथयामि, सावधानीभूय भवता ताः सर्वाः श्रूयन्ताम् ।
__इह सप्तसुनरकावासभूतपृथिवीषुशीतादिका दशधा क्षेत्रवेदनाः सन्ति । सप्तसु नरकेषु मिथः शस्त्रादिप्रहारं विना सञ्जातवेदनाः समानाः सन्ति । तत्राद्यनरके पञ्चके प्राणिनां परस्परं प्रहारादिवेदना जायन्ते। तथा प्रथमनरकत्रये जीवानां परमाधार्मिकैस्तैर्देवैर्विहिता दुःसहा महावेदना भवन्ति । ताश्चैताः-यथा-शीतवेदना (१) उष्णवेदना (२) क्षुधावेदना (३) तृषा (४) खर्जू (५) परवश्यता (६) ताप (७) दाह (८) भय (६) शोकवेदना (१०) एतदन्ये दुःसहतराः क्लेशा अपि भुज्यन्ते नरके प्राणिभिः सदैव ।
किञ्च हे राजन् ! दृष्टान्तमप्येकमत्र विषये त्वां दर्शयामि । तथाहि-यदा कश्चिच्चपलोधूर्तस्तव प्रेयसी सूरिकान्ताभिधानां रहसि 1. भवदनुसारेण ।