________________
सूक्तमुक्तावली शृणु । हे राजन् ! त्वामेव सुस्नातमनुलिप्तसुरभिचन्दनं, रमणीयशुद्धकौशेयवसनाभरणैर्मण्डितगात्रं देवपूजायै गच्छन्तम्पथि कश्चिच्चाण्डालादिजनो महताप्याग्रहेण यद्येवं ब्रूयात् - हे स्वामिन् ! अहं तव दासोऽस्मि सदैव भवदुच्छिष्टमश्नामि, सांप्रतमप्युच्छिष्टमेव शिरसा वहन् व्रजामि । परं मयाऽद्य महाश्चर्यं विलोकितम् । तदिहागत्य मत्तो भवद्भिरवश्यं श्रोतव्यम् । इति तदाहूतस्त्वं तदन्तिकं गमिष्यति न वेति? राजोवाच- हे स्वामिन् ! तदानीं नाहं तत्पार्थं गच्छानि, तदुक्तं श्रोतुं तत्र क्षणमपि न तिष्ठानि ।
इति राज्ञो वचः समाकर्ण्य गुरव ऊचुः हे राजन् ! यथा विशिष्टं देवार्चनादिकृत्यं विहाय भवान् नीचजनान्तिकमालपितुं न जिगमिषति । तथैव देवतापि मुनष्यैः सहाऽऽलपितुमिहलोके नाऽऽयाति । परन्तु कियन्तो देवा वचनपारवश्यादिकारणेन कदाचिदेवात्र समागच्छन्ति। तत्कारणमेव दर्शयति गाथा
|
पंचसु जिणकल्लाणेसु चेव, महरिसितवाणुभावाओ । जम्मंतरनेहेण य, आगच्छंति सुरा इहयं
॥१॥ व्याख्या - जिनेवराणां पञ्चकल्याणके तथैव महर्षीणां तपःप्रभावाद्देवा अत्र समायान्ति । पुनर्भवान्तर - प्रवरस्नेहप्राचुर्येण श्रीशालिभद्रपितृवत्, द्वेषेणाऽपि च संगमदेववद्देवा मर्त्यलोके समागच्छन्ति नान्यथेति श्रुत्वा नृप एवमाचष्ट
प्रभो ! गतो मे संशयसकलोऽप्यत्र विषये । परमन्यमेकं पृच्छामि, तमपि युक्त्या निराकरोतु भवान् । तथाहि - हे गुरो ! हे सर्वदर्शिन् ! मम पिता तु पापीयान सदैव जीवानां विघातक एवाऽऽ
14