________________
सूक्तमुक्तावली मयाऽङ्गीक्रियते, परं पाप-पुण्ययोः सद्भावे मनो मे सन्दिग्धमस्ति ।
तदुक्तमाकर्ण्य गुरुरभाणीत् - हे पृथ्वीपते ! यदि जीवस्य धर्माऽधर्मों न भवेतां, तर्हि संसारे एकः सुखं द्वितीयो दुःखराशि भुङ्क्ते । एको हस्तिना गच्छति, अपरः पादचारी । कश्चिद्राज्यङ्करोति, कश्चन रङ्कतामुपैति । कियन्तो विद्वांसो दृश्यन्ते, पुनरन्ये मूर्खा इत्यादि जगतो वैचित्र्यङ्कथं स्यादतो धर्माऽधर्माववश्यं स्वीकर्तव्यौ । अमुं दृष्टान्तमाकर्ण्य राज्ञाऽपि पापपुण्ये स्त इति स्वीकृतम्।
पुनराख्यद्राजा- हे साधो ! मम ज्यायसी पितामही जैनधर्मे भृशं रागवती गुरुसेवनतत्परा सदैव सत्पात्रप्रदानकारिणी समासीत् । तस्याश्च मय्यप्यनुरागो महानासीत् । नित्यं सा मदीयश्रेयसि लीनाऽवर्तत । सा चेदानीं भवन्मते मृत्वा कुत्रचिन्महार्हे देवलोके देवीत्वेनोत्पन्ना सती मामात्मवृत्तं कथयितुमिह कथं न समायाति, इत्यपि महान्मे संशयोऽस्ति । तदा गुरुरेवमाचचक्षे- भो राजन् ! अत्र विषये ममैकं दृष्टान्तं सावधानतया शृणु
एतल्लोकादूर्ध्वञ्चतुष्पञ्चशतयोजनपर्यन्तं मनुष्यस्य गन्ध उद्गच्छति, तद्भीतिवशाद्देवा अत्र लोके नाऽऽगच्छन्ति । पुनरेतत्स्फुटार्थद्योतिका गाथाप्येवंचत्तारि पंच जोयण-सयाइ गंधो अ मणुअलोगस्स । उड़े बच्चड़ जेणं, न हु देवा तेण आवंति ॥१॥
किञ्च देवा देव्यो वा दासीकृता न सन्ति लोकः, येन समागत्य तत्रत्यमखिलं वृत्तं लोकान् कथयेयुः ।।
अपरमपि दृष्टान्तंप्रमाणतया त्वां दर्शयामि तमपि श्रद्धालुर्भूत्वा
- 13