________________
सूक्तमुक्तावली ततो जीवसद्भावे सजातदृढमतिको नृपोऽवादीत् - हे अपारविद्यागुरो ! मयैकदा चौरमेकं लोहपेटिकायाञ्जीवन्तं निक्षिप्य सा पेटिका मुद्रिता, तस्याः सर्वतः शीशकावरणेन वेष्टनञ्च कारितम् । सूच्यग्रमात्रोऽपि तत्प्रदेशोऽनावृतो नाऽकारि । तथापि तस्य तस्करस्य जीवो निरगच्छदेव । तत्राणुमात्रमपि छिद्रं नाऽभूत् । तर्हि केन मार्गेण जीवो निरगादिति महान् मे संशयो जागर्ति । किञ्च तत्र शवे शतशः कृमयोऽपि कथमाजग्मुः । मार्गस्तु नैवाऽऽसीत् । इत्याधुक्त्वा विरते नृपे, गुरुर्जगाद
हे क्षितिपाल ! श्रूयताम, यदा कश्चित् पुमानधिकन्दरं सर्वद्वारं पिधाय मध्ये च स भेर्यादिकं वादयते, तदा तच्छब्दमुपरिस्थिता जनाः शृण्वन्ति न वा ? तथा एव मृदङ्गनादः, एष दुन्दुभिध्वनिः इत्यादि स्पष्टतया ज्ञायते न वा ? राजोवाच-हे स्वामिन् ! सत्यमेतत्शब्दस्तु श्रूयते, ज्ञायते च तद्भेदोऽपि । तर्हि स्वयमेव विचारय । यदवरुद्धे गृहे जातस्य शब्दस्य बहिर्निर्गमस्तथा बहिर्जातस्य नादस्य प्रावृतगृहान्तः प्रवेशश्च छिद्रादिमार्गसद्भावं विना यथा भवति । तद्वदरूपिणो जीवस्याऽपि गमागमौ भवत इति किमाश्चर्यम् ? किञ्च रूपवतो वाद्यस्य नादनिर्गमे यदि गृहकुड्यादौ छिद्रो न जायत इति प्रत्यक्षतया दृश्यते, तर्हि जीवस्य निसर्गतोऽरूपिणो गमनागमनयोभित्त्यादयो मनागपि कथं स्फुटेयुः । एतज्जीवद्रव्यं तु सर्वत्र सदैव सूक्ष्मरूपेण व्यापकतया तिष्ठत्येव । इत्याद्यनेकदृष्टान्तदर्शनेन राज्ञः प्रतिबोधो जातः ।
तत्राऽवसरे राजा पुनरेवं मुनिमप्राक्षीत्-हे गुरो! जीवोऽस्तीति
12