________________
सूक्तमुक्तावली
सत्त्वाऽभावो निश्चितस्त्वया, तथैव तव पृष्ठभागस्य चाक्षुषं प्रमाणमपि न जायते । इति तदभावोऽपि मन्तव्यः । यदि स्वपृष्ठभागस्य स्वचक्षुषा ग्रहणं न सम्भवति, तथाऽपि निजपृष्ठभागसत्तां स्वीकरोषि तर्हि किमपराद्धं जीवसत्तया । येन तुल्येऽपि कारणे जीवो नास्तीत्यवधारितं त्वया । अतो हे नृपेन्द्र ! नास्तिकतां त्यज । जीवोऽस्तीति जानीहि, मनागपि तत्र न संशयितव्यम् ।
T
इत्थं गुरुवचसा स क्षोणीपतिः किञ्चित्प्रतिबुद्धः । पुनरपि समुत्पन्नसंशयो नृपो गुरुमेवं पप्रच्छ - हे गुरो ! जीवसत्ता तु त्वद्वचसा मयाऽपि स्वीकृता, परं स दृश्यते कथं न ? अहं तु तद्विलोकनार्थं कियतचौरान निहत्य तदङ्गानि सहस्रशश्छित्त्वा विलोकितवान् । कुत्राऽपि कदाचिदपि जीवो नैव दृष्टः, तत्र किङ्कारणम् ?
I
गुरुः कथयति- हे राजन् ! एकमनाः शृणु, यथा तवेमं सन्देहं छिन्द्याम् । यथा वन्ये शुष्के काष्ठसङ्घाते सन्नपि वह्निश्चक्षुषा न गृह्यते, यथा वा तिलेषु तैलं सदपि लोकैर्न दृश्यते, यथा वा पयस्सु घृतं कुसुमेषु गन्धः तथा शरीरे सन्तमपि जीवं लोका न पश्यन्ति । किञ्च संसारिणः प्राणिनश्चर्मचक्षुषा जीवं न पश्यन्ति सर्वज्ञास्तु पश्यन्त्येव । इयमत्र विचारणा-ये च पदार्था रूपिणः सन्ति, तेऽपि कारणविशेषसंयोगात् प्रकटीभवन्ति । जीवस्त्वरूपी पदार्थः तङ्कथमनेन चर्मचक्षुषा लोकाः पश्येयुः । हे राजन् ! रूपवन्तोऽपि पदार्था घृतादयः स्वकारणे सूक्ष्मतया सन्तोऽपि विशिष्टकारणान्तरसहकारणैवाऽभिव्यज्यन्ते । जीवस्तु निसर्गत एव रूपादिहीनोऽस्ति, तस्य साक्षात्कारस्तुकेवलिनामेव जायते । नाऽन्येषामिति जीवसद्भावोऽवश्यमवगन्तव्यः सर्वैः ।
11