________________
सूक्तमुक्तावली एवं स मन्त्री नृपं वनक्रीडाव्याजेन तत्राऽनयत, यत्र स चतुर्ज्ञानी महामुनिः सकलकलाकुशलो नर-नारीकदम्बमण्डिते सदसि सुकृतिजनसुलभरितरजनदुरापैराहतशावतधर्मधुरस्वरैः श्रोतृश्रोत्राह्लादकरैर्भविकानतिगूढमपि तत्त्वं बोधयन्नाऽऽसीत् ।
अथेदृशं मुनिमालोक्य तमुपहसन् राजा मन्त्रिणमेवं वदितुंलग्नः । तद्यथा-अरे चित्रसारथे ! असौ मुण्डी किम्प्रलपति ? असौ श्रोतृजनवसनाञ्चले किमपि बध्नाति किम् ? कोऽयं पाखण्डी दृश्यते? नृपोक्तमेतदाकर्ण्य प्रधानोऽवदत् । महाराज ! अहमप्येनं न जानामि, यद्येनं ज्ञातुमिच्छसि तर्हि तदन्तिके गन्तव्यम् । ततो ज्ञास्यसि कोऽस्ति कीदृशश्चेत्यादि सर्वम् ।
अर्थतन्मन्त्रिवचः सम्यगिति मत्वा मन्त्रिणा सह गुरोः पार्थेऽभिमानेन वन्दनादिकमकुर्वाणो नृपस्तत्रोपाविशत् । तदानीं गुरुरपि राज्ञः प्रश्नावसरप्रदानाय जीवविषय एव प्राधान्येन व्याख्यातुं प्रारेमे ।
अथ राजाऽपि वक्तुमवसरमासाद्य गुरुम्प्रत्येवमपृच्छत्- हे स्वामिन्! त्वमेताः सरला मम प्रजा इयतीमसतीं वाणी मुधा प्रलप्य कथं वञ्चयसि ? तत्राऽपि जीवसत्तां निरूपयसि । जीवो हि गगनकुसुमायमान एव प्रतिभाति । सत्पदार्थस्याऽवश्यमुपलब्धिरपि भवति। यदि शरीरे कोऽप्यन्यो जीवात्मा भवेत् तर्हि तदुपलब्धिरपि भवेदेव | तथा न भवत्यतो जीवनिरूपणं सर्वथाऽलीकमेव वेद्मि । मया तु बहुधा विलोकितेऽपि समाहूतोऽपि जीवः कुत्राऽपि नैवाऽदर्शि।
अथ गुरुरवादीत्- भो राजन् ! त्वं प्रत्यक्षमेव प्रमाणं मनुषे । अनुमानादिकं नैव मन्यसे चेदतः पृच्छामि-यथा प्रत्यक्षाऽभावाजीव10 -