________________
सूक्तमुक्तावली
भो महाभाग ! लोकास्तु तत्र श्रद्धालवः सन्ति, परं तावकीनो राजा महादुष्टो नास्तिकोऽस्ति । इति तत्रागमनेन लोकानां श्रेयः कथं भविष्यति? तदा पुनस्तेनोक्तम्-हे सद्गुरो! भवदागमनेनाऽवश्यकल्याणं भविष्यति । पुनरुक्तं गुरुणा-सत्यवसरे भवदुक्तं करिष्यामि। इत्थं गुरुणा साकं प्रश्नोत्तरं विधाय चित्रसारथिर्गुरुं वन्दित्वा ततो निरगात्।
तदनु ग्रामान्तरमागत्य स्वामिकार्य सम्पाद्य स प्रधानो निजनगरमागत्य प्रदेशिराजानं नमस्कृत्य निजालये समागतः । गृहागतः प्रधानः स्नानादिभोजनान्तं विधाय वनपालं निजसद्मनि समाहूय रहसि तमेवमादिदेश
भोवनपाल! तव वाटिकायां यदा कश्चिन्महात्मा मुनिरागच्छेत्तदा तदागमनं राजानं मा ब्रूहि, प्रथमं ममैव सत्वरं वाच्यम्, इति प्रधानादेशं शिरसाऽवधार्य वनपालो निजधाम समाययौ ।
अथैकदा ग्रामानुग्रामं विहरन्स केशिकुमारो गणधरोमुनिगणैः सह घेताम्बिकापुर्यां मनोरमाभिधाने महोद्याने समाययौ । तदानीमेव वनपाल आगत्य राजानमकथयित्वैव मन्त्रिणं गुर्वागमनं विज्ञापयामास। परन्तु महतामागमनमधिग्रामं लोकरविदितं कथं भवेत् । बहुतरभविकनरनारीयूथस्य गुरुवन्दनायै गमागमोऽध्यजायत ।
- अथ चित्र-सारथिरपि राजान्तिकं गत्वा तस्मै गुर्वागमनवृत्तमकथयन्नुद्यानविहाररागिणं नृपं सायन्तनोपवनविहारायैव प्रार्थयामास | तच्छ्रत्वा प्रमोदमापन्नस्तत्कालमेव सुसज्जीभूय तदुद्यानं विहाराय मन्त्रिणा सह चचाल |
मक
9