________________
सूक्तमुक्तावली पिञ्जरे चौरं मृतमदर्शि । जीवस्तु केन मार्गेण निर्गत इति विज्ञातुमभितः शोधितेऽपि कुत्राऽपि रन्ध्रादिकं मनागपि नाऽलोकत। शवे च तस्मिन् सहस्रशः कृमयः समुत्पन्ना दृष्टाः ।
अथैतत्प्रपञ्चेन तेन राज्ञा मनस्येवंनिश्चितम् - इह खलु देहात्पृथगात्मा नैवाऽस्ति । केवलं पञ्चभूतानां विशिष्टसंयोगो यावद्भवति, तावदेष देहश्चेतनो भवति, संयोगनाशे च नश्यति । किञ्च ततः प्रभृति स राजा लोकानेवमुपदिदेश - भो ! भो लोकाः ! शरीरमेवाऽत्मास्ति एतदन्यः कोऽपि नैवाऽस्ति । तथा पापपुण्ये न स्तः । इहैव यथेष्टं स्वेच्छया विषयसेवनाऽशनपानविविधविलासादिकरणेनैव मनुष्यत्वं सफलं कुरुत। इत्थमनार्यमधर्म्यमुपदिशतस्तस्य राज्ञः कियान् कालो यातः ।
अथैकदा प्रदेशिना राज्ञा चित्रसारथिनामा निजप्रधानः कस्याऽपि कार्यस्य हेतोः कौशाम्ब्यां नगर्यां प्रेषितः । तत्र च श्रीपार्श्वनाथप्रभोः शिष्यो महापुरुषश्चतुर्ज्ञानधारी केशिकुमारनामा गणधरः श्रद्धावद्भ्यो भविकजीवेभ्यो धर्मदेशनां ददानः श्राद्धमण्डलमण्डितः सदसि व्यराजत। प्रधानोऽपि तत्र गत्वा तं गणधरं महाराजं विधिवत्प्रणम्य तत्समक्षमुपविश्य धर्मप्रभावमशृणोत् । स च तत्क्षणमेव धर्मदेशनां श्रुत्वैव किञ्चित्क्षीणकर्मा सन् प्रतिबुद्धोऽभवत्। देशनान्ते च समुत्थाय भक्तिनम्रात्म- कन्धरः स प्रधानः प्राञ्जलिरेवं गुरुम्प्रार्थयामास । हे स्वामिन् ! कृपां विधाय श्वेताम्बिकानगरीमागच्छ । श्रीमतां तत्रागमनेन धर्मो नितरां वर्द्धिष्यते । किञ्च चातकगणः स्वातिबिन्दुमिव मयूरश्रेणी मेघपटलमिव भवन्तं वीक्षमाणो लोको भृशं मोदिष्यते च । इत्थं सविनयं साग्रहं प्रधानप्रार्थनामाकर्ण्य गुरुर्जगाद
8