________________
सूक्तमुक्तावली यथा केशिकुमारगणधरवचः श्रुत्वा, प्रदेशिराजः प्रतिबोधमवाप्य देवत्वं लेभे । प्रान्ते मोक्षञ्च प्राप्स्यति, अत्र विस्तृतदृष्टान्तोऽग्रे कथ्यते ।।६।।
ना
२-अथ गुरुतत्वोपरि-केशिकुमारगणधर
प्रदेशिराजयोः प्रबन्धःयथा-इह हि भरतक्षेत्रे केकाख्यदेशे घेताम्बिकाऽभिधा नगरी विद्यते । तत्र च प्रदेशी नामा राजा राज्यं शास्ति । असौ राजा नास्तिकमतवादी, अत्यन्ताऽधार्मिको महापापीयान भक्ष्याऽभक्ष्यविचारहीनः सदैव हिंसाजन्याऽसृकप्रदिग्धकरयुगलो वर्तते स्म । किमधिकेन सततं स राजा नरकगतिसाधनायामेव कर्मठ आसीत् ।
नास्तिकस्य तस्य राज्ञो मनसि रात्रिन्दिवमीदृशो वितर्को जायमान आसीत्। तमेव विवृणोति-शरीरातिरिक्तोजीवःशुभाऽशुभफलभोक्ता कोऽपि नास्ति, किन्तु क्षित्यप्तेजोमरुदाकाशात्मभिरेव पञ्चभिर्भूतैः सम्बद्धो निष्पन्नः शरीरोऽयमात्माऽस्ति । एषु पञ्चभूतेषु विनष्टेषु सर्वे पुद्गलाः स्वत एव नश्यन्तीति निजसिद्धान्तं दृढीकर्तुं स राजा एकदा एकञ्चौरञ्जीवन्तं तोलयित्वा पुनस्तमेव मारयित्वा तच्छरीरंतोलयन राजापूर्वमानतः किञ्चिदपि वृदिधंहासंवा नाऽपश्यत्। पुनरेकदा कमपिस्तेनंधृत्वा हत्वा च तदङ्गं खण्डशः कृत्वा प्रतिखण्डेषु जीवं बहुधा विलोकयामास । परं कुत्राऽपि तत्कायखण्डे जीवो नैव दृष्टस्तेन । पुनरन्यदा स एकं तस्करं गृहीत्वा नीरन्ध्रे लोहपिञ्जरे निक्षिप्य, तदुपरि शीशकावरणमाधाय, तथाऽऽवृणोद्यथा कथमपि कुतश्चिदपि पवनस्य गमागमोन भवेत् । अथ कियदिनानन्तरमुद्घाटिते