________________
सूक्तमुक्तावली संजातवैराग्याद्राज्यं विहाय योगमार्गमशिश्रियत् ||३५||
१६- अथ निर्वदाद् गृहीतसंयमस्य
भर्तृहरेः प्रबन्धःयथा-पुरा राज्ञो भर्तृहरेः कश्चिद्वैदेशिको विप्रः फलमेकममृतमुपाहरत् कथितञ्च- राजन् ! य एतद् भोक्ष्यते नरो नारी वा स यावज्जीवं यौवनं लप्स्यते । ततः स तद् गृहीत्वातिप्रेम्णा निजप्रेयस्यै राज्यै ददौ जगाद च- प्रिये ! त्वयैतदवश्यं भोक्तव्यं, यदेतदशनेन यौवनं ते सदैव स्थास्यति ।
__ अथ तत्फलमादाय सा निजप्रेयसे कस्मैचन हस्तिपकाय जाराय दत्तवती । सोऽपि तादृग्गुणशालि फलं लात्वा निजप्रियायै गणिकायै दत्तवान् । सा तल्लात्वा दध्यौ-अहमेतदशित्वा यावज्जीवं स्थिरयौवनमागत्य किं साधयिष्ये ? प्रत्युताधिकं पापमेव विधास्ये । अत एतत्फलं सुखेन प्रजापालकाय राज्ञे दातव्यं येन तुष्टो भर्तृहरिः प्रचुरं धनं दास्यति बहु सत्करिष्यति चेति विमृश्य सा गणिका तत्फलं सदसि समागत्य नृपस्योपायनमकरोत् । ... नृपस्तदुपलक्ष्य तदैव राज्याः पार्थमेत्य तामपृच्छत्- अयि प्रिये ! तत्फलं त्वया भुक्तं न वा ? तयोक्तम्- हे प्राणेश्वर ! त्वदने मृषावादेन किम् ? अतोऽहं सत्यं निगदामि । परमेषोऽपराधस्त्वया क्षाम्य एव । नृपोऽवदत्- सत्यं ब्रूहि क्षान्तस्तवापराधो मया । अत्रावसरे राज्ञी जगाद- स्वामिन् ! मया त्वत्प्रदत्तं तदमृतफलं हस्तिपकाय दत्तम् । ततो नृपः सभामागत्य तमाकार्य पर्यपृच्छत्- भो ! यत्ते फलं
381