SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली राज्ञी ददौ तत्किं कृतम्, भुक्तं वा कस्याऽपि प्रदत्तं? तत्सर्वं सत्यं वद । तेनोक्तम्- स्वामिन् ! मया तत्फलं गणिकायै दत्तम्। ततस्तां वेश्यामपृच्छत्- अयि गणिके ! त्वया मे कथमेतदुपहृतम् । स्वयं किन्न भुक्तम् ? साऽवक्- नाथ ! अहमाजन्म यदि यौवनं लप्स्ये तर्हि महन्मेऽवद्यमुत्पत्स्यतेऽतो मयैतन्न भुक्तम् । श्रीमान् भवांस्तु राजा, बहूनां पालकोऽस्ति अत एतत्फलमशित्वा चिरं लोकानुपकरिष्यति । अथैतदाकर्ण्य सातवैराग्यो भर्तृहरिस्तदेमं श्लोकमपठत् । यथायां चिन्तयामि सततं मयि सा विरक्ता, साऽप्यन्यमिच्छति जनं स जनोऽन्यसक्तः। अस्मत्कृते च परितुष्यति काचिदन्या, धिक् तां च तं च मदनं च इमां च मां च अथ तदैव निर्विण्णो राजा योगी भूत्वा गृहमत्यजत् । यतः संसारं विहायैव प्राणी सुखमुपैति नान्यथा । अथ १०-आत्मबोध-विषयेजे मोह-निंद तजि केवल बोधि हेते, ते ध्यान शुद्धि हृदि भावना एक चित्ते । ज्यूं निष्प्रपञ्च निज ज्योतिस्वरूप पाये, निर्वाध थी अखय मोक्ष सुखार्थ आवे ॥३६॥ इह यो हि मोहनिद्रां त्यजति, तस्य केवलज्ञानबीजमुदेति । तदनु स शुद्धध्यानेन निर्मलीकृतचेतसि परां भावनां भावयन् मुक्तभवप्रपञ्चजालो ज्योतिःस्वरूपममुमात्मानं साक्षात्करोति। पुनरत्र संसारे निर्विण्णतामापन्नः प्राणी मोक्षं प्रति यतमानो भवति । 382
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy