________________
सूक्तमुक्तावली कोटिदीनाराँल्लात्वा रुक्मिणी पुरस्कृत्योपाश्रयमागत्य वज्रस्वामिनमवदत्- महाराज ! एतान् कोटिदीनारान् गृहाण मम पुत्रीमिमां परिणीयाऽनुगृहाण चेत्युदीर्य कन्यां दीनारांश्च तत्रैव मुक्त्वा निजसदनमाययौ । तदनु तथा कन्यया वज्रस्वामिनं चालयितुं कृतेष्वपि शतश उपायेषु मेरुशिखरमिवाऽचलमवगत्य प्रतिबुद्धा सती पितृदत्तं दीनारादिसर्वं सप्तक्षेत्रेषु विभज्य प्रव्रजिता सा कन्याऽऽत्मसाधनतत्परा जाता। १४-अथ पुनः संवरद्वारमाद्रियमाणस्य
पुण्डरीकस्य प्रबन्धः__पुरा संयममार्गात्परिभ्रष्टः कुण्डरीको मुनी रजोहरणमुखवसनादि कुत्रचित्तरावाललम्बे | पुनः कुण्डरीके राज्यासनमापन्ने पुण्डरीकस्तदा धर्मध्वजादि तदुपकरणमादाय गुर्वन्तिकं गत्वैव मयाऽन्नोदकं ग्राह्यमिति नियममङ्गीकृत्य ततश्चचाल मार्गे च पादचारिणस्तस्य कटकादिविद्धाभ्यां पद्भ्यां रक्ते निर्गच्छत्यपि मनागपि संवरमत्यजन्नग्रे गच्छंस्तृतीये दिवसे कालं कृत्वा सर्वार्थसिद्धविमाने त्रयस्त्रिंशत्सागरोपमायुष्को देवोऽभूत् । अतो वच्मिसंवरे महाँल्लाभोऽस्ति, अतोऽसौ सर्वरादर्तव्यः ।।
५-अथ ९-निर्जराभावनामाहदुअदश तप भेदे कर्म ए निर्जराए, उतपति थिति नाशे लोक भाया भराए । दुरलभ जग बोधी दुर्लभा धर्म बुद्धि, भव हरणि विभावो भावना एह शुद्धि
રો
372