________________
सूक्तमुक्तावली त्कोटिसागरोपमायुष्कोऽभूत, इत्थं कुण्डरीकस्याश्रवद्वारप्रभावत ईदृशी दुर्गतिर्जाता । अतः श्रेयोऽर्थिभिः सर्वैराश्रवद्वारो रोद्धव्यः, संवरश्चैषामाश्रवाणां यत्नेन विधातव्यः ।
६-अथ 6-संवरभावनामाहजे सर्वथा आश्रवने हटाये, ते संवरी संवर भाव पाये । ते भाव वन्दो गुरु वज्रस्वामी, जेणे त्रिया कंचन कोडि यामी
योहि सर्वथा तान्याश्रवस्थानानि निवारयति संवरञ्च समाश्रयति स एव प्राणी सदैव सुखी जायते । वज्रस्वामीव । यथा-स मुनिवर्यः कोटिदीनारान् महारूपवती तरुणीमनुरागिणीमीदृशीं कामिनीञ्च त्यक्तवान् समादत्तवांश्च परं संवरम् । तेन स सर्वैर्वन्दनीयो मूर्धन्यश्चाभूत्सर्वेषामिति ||२४||
१३-संवरं भजमानस्य वज्रस्वामिनः प्रबन्धः
यथा-पाटलीपुरनगरे निवसतोधनावहमहेभ्यस्य महारूपवती रुक्मिणीनाम्री कन्या वज्रस्वामिनो देशनामाकर्ण्य तद्रूपेण विमोहिता निजसदनमागत्य मातापितरावेवमवादीत्- हे पितरौ ! अहमनेन देहेन वज्रस्वामिनमेव वरिष्ये, नान्यं भर्तारं विधित्सामि । ताभ्यामुक्तम्हे वत्से ! स त्यागी वर्तते, तस्मात्त्वां न परिणेष्यति । अनेनाश्रवद्वारं सकलं प्रत्याख्यातमतः कोऽप्यन्यो गुणवान् वरो वरणीयः । इत्थं बहुधा प्रतिबोधिताऽपि यदा सा न बुबुधे, तदा धनावहः श्रेष्ठी
-371