________________
सूक्तमुक्तावली
१२ - आश्रवदोषान्नरकमितस्य कुण्डरीकस्य प्रबन्धः
यथा-महाविदेहक्षेत्रे पुण्डरीकिणीपुर्यां पुण्डरीक - कुण्डरीकनामानौ भ्रातरौ राज्यं बुभुजाते । अत्रान्तरे तत्र कश्चन ज्ञानी गुरुरागात्तदीयदेशनां निशम्य संजातप्रतिबोधः कुण्डरीको राज्यं पुण्डरीकाय दत्त्वा दीक्षां ललौ । स सरसनीरसमाहारं कुर्वन् महारोगग्रस्तोऽभूत् । ततः परिणाममपश्यन् वर्षसहस्रं चारित्रं परिपाल्याऽपि कर्मप्राबल्यतः स संयमं जहौ ।
अथ गृहे स्थातुमिच्छया गृहान्तिकेऽशोकवाटिकायां धर्मध्वजं मुखवस्त्रञ्चालम्ब्य शोचितुं लग्नो यदसौ बन्धुर्मे राज्यं दास्यति न वेति विमृशंस्तस्थौ । तावत्तत्र कुतोऽपि कार्यप्रसङ्गात्समागतः पुण्डरीकस्तमुपलक्ष्य प्रणम्य चागमनकारणमपृच्छत् । तत्र समये कुण्डरीकः सर्वं मनोगतमुदन्तं तमवदत्तदाकर्ण्य पुण्डरीकस्तस्मै राज्यं दत्त्वा गृहमानयत्परं सामन्तादयः केऽपि तं नोपासत । किन्तु धिगेनं यो हि सहस्रवर्षाणि संयमे स्थित्वा पुना राज्यं बुभुक्षते, ततः केनाप्यस्यान्तिकं न गन्तव्यं नासौ सेवनीय इति सर्वैर्निश्चितम् ।
T
अथैकदा कुण्डरीको यथेच्छसरसं गरिष्ठाहारं विधाय रात्रौ कतिवारमवमद्विसूचिका च जाता, इत्थं नानादुःखैर्भृशमाकुलमपि तं कोऽपि किञ्चिदपि नोपचचार । तत्रावसरे मनसि दुर्ध्यायति यद्यहं शुभस्वास्थ्यं लप्स्ये तर्हि प्रगे सर्वानेव भृत्यान् प्रधानादींश्च शिक्षयिष्ये । इत्थं दुर्ध्यानेन चाऽसमाधिना मृत्वा स कुण्डरीकः सप्तमं नरकमगमत् । तत्र चाऽप्रतिष्ठाननामकं नरकावासमासाद्य त्रयस्त्रिंश
370