________________
सूक्तमुक्तावली तवाङ्गे वैकृत्यमागतम्।
___ अथ चक्री तदैव ताम्बूलं ष्ठीवित्वा तद्भक्षणान्मक्षिकामरणमालोक्य तद्भाषितं तथ्यममंस्त । इत्थं संजातप्रतिबोधः स चक्री षट्खण्डामिमां महीं विहाय सर्पः कञ्चुकमिव राज्यादिकं सकलं परित्यज्य चारित्रमादाय द्वात्रिंशत्सहस्रराजमिस्तथा सुनन्दाप्रमुखप्रमदाभिश्च बहुधा निवारितोऽपि सर्वमप्युपेक्ष्य गृहान्निरगात् । षण्मासपर्यन्तं ते सर्वे लोकास्तमन्वगुः । पश्चात्तं विरागिणं मत्वा निराशाः परावर्तन्त ।
अथास्य साधोः सप्तशतवर्षाणि यावन्महारोगस्तस्थिवान, तमपि सशान्तमनाः सेहे । तस्मिन्समये देवास्तत्परीक्षाकृते वैद्यरूपेण तदन्तिकमगुः । साधुना पृष्टम्- भवन्तः के सन्ति ? किमर्थश्चात्रागताः सन्ति । ते जगदुः-वयं वैद्याः, भवत ईदृशं जातं रोगं श्रुत्वा तच्चिकित्सार्थमत्राऽऽगताः स्मः | साधुरवदत्-भो! भवन्तः कर्मरोगमपि चिकित्सितुं जानन्ति ? उत शारीरिकं रोगमेव । तैरुक्तम्महाराज ! कर्मरोग प्रतिकर्तुमस्माकं शक्तिर्नास्ति । तत्रावसरे स मुनिरगुल्या कर्फ निःसार्यतेभ्यो दर्शितवान्। तत्तुते साक्षात्कुन्दनमिव निर्मलं सुरभिसुवर्णमपश्यन् ।
___ पुनरुक्तं मुनिना- भोः ! ममेदृशी शक्तिर्विद्यते तथापि शरीरेऽस्मिन्नश्चरेऽशुचिमये समुत्पन्नेन नानाविधरोगेण जीवस्य मनागपि दुःखं न जायते । किञ्च- येन यादृशं कर्मसंचितं, तत्फलं तेन भोक्तव्यमेव । तत्र का परिवेदना ? अन्यच्च बाह्योपचारैरान्तरो रोगो नैव शाम्यति । एवं तदीयां दृढभावनां चारित्रस्थैर्यञ्च विदित्वा तं
368