________________
सूक्तमुक्तावली
, अथैकदा सभासीनः सौधर्मेन्द्र एतद्रूपातिशयं प्रशशंस | यथा-सनत्कुमारचक्री निरुपमरूपवानस्ति, तथाऽन्यः कोऽपि नास्तीति तदसहमानौ द्वौ देवौ तदैवोत्थाय विचार्य च ब्राह्मणरूपेण तदन्तिकमाजग्मतुः । तत्रावसरे स्नानागारे स्नानपीठिकोपर्युपविष्टं वेषेण तं साधारणं विलोक्यापि तौ देवौ शिरो दुधुवतुः ।
तदद्भुतरूपावलोकनेन विचारसागरे पतितौ तौ चक्री जगादभो विप्रौ ! युवां किं पश्यथः ? तावूचतुः-भवदद्भुतं रूपम् । राजाऽवक्भो ! इदानीममण्डितस्य मम रूपं किमीक्षेथे । यदाहं स्नानानुलिप्तो दिव्यैराभरणैर्वस्त्रैश्च विभूषितच्छत्रचामरादिसहितः सिंहासनासीनो भवानि तदा मे रूपं विलोकनीयम् । तच्छ्रुत्वा तौ मनसि जगदतुः-अहो! वैपरीत्यं कथं दृश्यते ? यदसौ स्वमुखेनैव स्वस्य रूपं वर्णयति, महतान्तु नेयं रीतिः । ततस्तौ जगदतुः-चक्रिन् ? इदानीमावां व्रजावः, पुनरागत्य द्रक्ष्यावस्ते शरीरशोभामित्युदीर्य तौ जग्मतुः |
चक्रवर्त्यपि कृतनित्यक्रियो वस्त्राभरणादिसज्जिततनुः सिंहासनासीनोऽभवत् । तत्रावसरे पुनस्तौ देवौ समागत्य चक्रवर्तिरूपं वीक्ष्य शिरः कम्पनं विदधाते । राजा वक्ति- किं भोः ! प्रागिवाऽधुनाऽपि युवाभ्यां शिरः कम्पितम् । तत्र को हेतुः? तत्तथ्यं ब्रूतम् । तौ कथयतः- महाराज ! तदा ते रूपममृतमय विलोकितम्, अधुना तु विषमयं दृश्यते । राजा वक्ति-कथं ? कोऽत्र प्रत्ययः ? तौ वदतःयदि न प्रत्येषि तर्हि ताम्बूलं चर्वयित्वा ष्ठीवतु । तत्रोपविष्टा मक्षिका तदशनेन तत्कालं यदि म्रियेत तर्हि मदुक्तं सत्यमवगन्तव्यम् । राजन् ! मादृशां ज्योतिर्विदां देवानाञ्च गीः कदापि मुधा न भवति । तथ्यं वच्मि
367