________________
सूक्तमुक्तावली भोः प्राणिनः ! यदिदं शरीरं बहिः सुन्दराकारं दृश्यते, तदशुद्धं वित्त । तथाहि-पुंसां शरीरेषु नवद्वारेभ्यः सदैव कफपित्तादिमलानि क्षरन्ति । स्त्रीणान्तु द्वादशच्छिद्राणि सन्ति तेभ्यः सर्वदाऽशुचिमलानि स्रवन्ति । किञ्चैतच्छरीरयोगादुत्तमाः सुरभिपदार्थाः कस्तूर्यादयोऽपि मालिन्यमशुचित्वञ्च लभन्ते । अहो ! यत्संसर्गवशान्निर्मला अपि मलतां यान्ति । ततोऽधिकमशुचि किं स्यात् ? शरीरमेवेदं तादृगस्ति ||२०|| अशुचि देही नर नारि केरी, म राचजे ए मलमूत्र सेरी। ए कारमी देह असार देखी, चतुर्थ चक्री पण ते उदेखी
॥२१॥ ____ अन्यच्च-स्त्रीपुंसयोः शरीरं मलमूत्राद्याकीर्णतया तत्त्वविदां मनःप्रीतिकरं न भवति । किन्तु य अज्ञास्त एवाऽत्र शरीरे रज्यन्ति । इदमसारं ज्ञात्वा सनत्कुमारश्चक्री, धनगृहशरीरादिममतां विहाय संसारं त्यक्तवान् ।।२१।।
११-एतच्छरीरमशुचि मत्वा तन्ममत्वं विहाय
प्रव्रजितस्य सनत्कुमारचक्रिणः कथा
पुरा चतुर्थः सनत्कुमारचक्रवर्ती महारूपवान् बभूव । स च प्राग्जन्मनि धर्मनामा श्रेष्ठी निरतिचारं संयम परिपाल्य प्रान्ते दैवीं संपत्तिमाप्तवान् । तत्र सुचिरं सुखमनुभूय ततश्च्युत्वा चक्रवर्तित्वमापन्नोऽस्ति।
366