________________
सूक्तमुक्तावली गृहीतसंयमोऽरहन्नकनामा पुत्रोऽपि मातुरादेशेनाऽतिसन्तप्तशिलोपरि ह्यनशनमकरोत् । ततस्समाधिना मृत्वा मोक्षमाप ||१८||
R
१०-अथ निर्माहकताऽनशनस्य मोक्षमधिगतस्याऽरहन्नकमुनेः कथा
तगरीपुरीनगर्यां दत्ताभिधानः श्रेष्ठी वर्तते । तस्य भार्या भद्राभिधाना चारहन्नकाभिधस्तत्पुत्रोऽस्ति । अथैकदा गुरुमुखाद्देशनामाकर्ण्य सपुत्रः सभार्यो दत्तश्रेष्ठी संसारमसारमवबुध्य दीक्षां ललौ । तावुभौ यथावत्संयमाराधनपरावास्ताम् । परमसौ दत्तसाधुः पुत्रोपरि घनिष्ठस्नेहवशात्पुत्रं न कष्टयते । आहारजलादिकृत्यमपि स्वयमेव करोति स्म । इत्थं पुत्रं सुखयन् संयम पालयंश्चायुःक्षये दत्तमुनिर्देहं त्यक्त्वा परलोकमगच्छत् । ततस्तस्यारहन्नकमुनेः शीतातपे जलाहाराद्यर्थं ग्रामान्तर्गमनादिनाऽतिक्लेश उदपद्यत । या च माता भद्रा साध्वी तदानीतमाहारपेयादिकं तस्य साधोरकल्प्यमेवाऽस्ति । अतः सोऽरहन्नको मुनिरधिकं क्लेशमन्वभूत् ।
अथैकदा साधवः स्वस्वपात्राणि समादाय गोचरीकृते नगरान्तश्चेलुः । तत्प्रेरितोऽरहन्नकोऽपि पात्राणि लात्वा तत्पृष्ठानुगोऽभवत, परं निदाघतापाधिक्यात्तेऽग्रे चेलुः । असौ गन्तुमनर्हः पथि कुत्रचिन्मन्दिराधश्च्छायायामतिष्ठत् । तत्र स्थितं तं काचिच्चिरविरहिणी तरुणी निजगवाक्षस्था निरीक्ष्य तद्रूपेण मोहिता दासीमादिशत्- हे वयस्ये ! त्वं याह्येनं मुनिमत्रानय | अथ दासी तत्रागत्य तं मुनि तदन्तिकमनयत्। अथागतमतिसुन्दरं तरुणमरहन्नकमुनिं साऽवोचत
316