________________
सूक्तमुक्तावली मुनिसुन्दर ! त्वमेनं तारुण्यमनेन वेषेण मुधा किङ्गमयसि ? त्वमत्रैव सुखेन तिष्ठ, मया सह स्वैरं रमस्व । तदुक्तिमङ्गीकृत्य तत्रैव तिष्ठन् स तया सह विषयसुखं स्वैरं भुङ्क्ते ।
इतश्च गोचरीमादाय समागतेषु साधुषु भद्रा साध्वी पुत्रमपश्यन्ती तानपृच्छत्- भो मुनयः ! मम पुत्रः क्व गतः ? तैरुक्तमस्माकं पृष्ठे स आसीत्परं कुत्र गतवानिति न विद्मः । इत्याकर्ण्य तदैव विक्षिप्ता सती अरहन्नक ! अरहन्नक ! इत्यालपन्ती नगरान्तरितस्ततो बभ्राम | तां तथावस्थामालोक्य कियन्तो लोका बालकाश्च कौतुकात्तां परिवः ।
अथैकदा बालपरिवृता सा विक्षिप्ता निजजननी तेन तद्गवाक्षनीचैर्दृष्टा । तामालोक्य समनसि दध्यौ-नूनमियं मद्वियोगादीदृशीमवस्था गतास्ति । अहो ! किं कृतं मया? धिग्मामीदृशं कुपुत्रं जननीक्लेशकारिणमिति विमृश्य तत्कालमेवाऽध उत्तीर्य मातुश्चरणयोरपतत् । पुत्रदर्शनात्साऽपि स्वस्थाऽभवत् ।
अथ माता पुत्रमवदत्- पुत्र! तव सर्वेष्टदं चारित्रचिन्तामणिमधिगतस्य स्त्रीसेवनं न घटते । विषयी जीवः सदैवाऽत्र परत्र चापकीर्तियुतां महती यातनां सहते, लोके च सर्वत्र गर्हितो भवति । अतो दुर्गतिप्रदमेनं विषयसुखं त्यज, संयमं च परिपालय ।
अथैतन्निशम्य पुत्रोऽवक्- हे मातः ! अहमीदृक्परीषहान् सोढुं नैव शक्नोमि । किन्तु तवानुमतिश्चेदस्यां शिलायामनशनं कुर्या, मात्रा तदनुमोदितम् । तदैवातितप्तशिलोपरि निरशनमकरोदरहन्नकः। ततोऽचिरादेव शुभध्यानेन मृत्वा देवत्वं प्रपेदे |
-317