________________
सूक्तमुक्तावली ग्रहणोत्सुकाऽभूत, परं रामेण बहुधा निवारिताऽपि तस्मै सुतौ समर्प्य जयभूषणसाधुपार्थे चारित्रं गृहीत्वा सुप्रभासाध्वीसङ्घाटके निवसति स्म । समाधिना संयममाराध्य द्वादशे देवलोके द्वाविंशतिसागरोपमायुष्कोऽच्युतेन्द्रो जज्ञे । ततश्च्युत्वा महाविदेहक्षेत्रे मानुष्यमवाप्य चारित्रम्परिपाल्य मोक्षं यास्यति । ईदृश्युत्तमा स्त्री पुण्यवतैव लभ्यते ।
अथ ४-संयोगवियोगविषये मालिनी-वृत्तम्प्रिय सखि ! प्रिय योगे उल्लसे नेत्र रंगे, हसित मुख शशी ज्यूं सर्व रोमाञ्च अङ्गे । कुच इक मुझ वेरी नम्रता जे न राख्ने, प्रिय मिलन समे जे अंतरो तेह दाने
॥१५॥ या कामिनी कान्तविलोकनेन नयनयुगलं सानन्दमुल्लासयति । यस्याश्चेषत्स्मेरं मुखं शारदशर्वरीश इव शोभते । या च कान्तप्रेक्षणवशात्पुलकं वहते, सा कामिनी सखीं ब्रूते यथा-अयि सखि! नूनमिमौ मामको कुचौ वैरिणौ भवतः । यतः प्रियालिङ्गनसमये पत्यौ नम्रतांन कदाचिद्दधाते। भर्तुरङ्गसंयोगसमयेऽपि च व्यवधायको भवतः ||१५||
अथ वियोगिनीलक्षणमाहदिन वस समाणे रेणि कल्पान्त जाणे, हिमकर कदली जे तेह जाला प्रमाणे । रसिककर शशी जे सर स्यो सोइ लागे, प्रिय-विरह प्रियाने दुःख स्यो तेन जागे
॥१६॥ प्रियेण कान्तेन वियुक्ता कामिनी दिनं वत्सरकल्पं मन्यते ।
314