________________
सूक्तमुक्तावली
T
इव विचारविकलो नास्मि । यो रामः सीतां षण्मासपर्यन्तं रावणालये स्थितामप्यानीय जग्राह, अहं तादृशो नास्मि, यत्कामचारामपि त्वां ग्रहीष्यामि । तत्रैव तिष्ठ, प्रभाते तन्निश्चयं कृत्वाऽन्तः प्रवेशं दास्यामि ।
तस्येदृशं वचनं श्रुतवान् रामस्ततो गृहमागतवान्। अथ सीता वने त्याजिता, तत्पश्चात् सीतायाः शीलपरीक्षायै लोकाऽपवादनिरासाय च रामचन्द्रः शतत्रयगजाऽऽयतनिम्नं महागतं निर्माय तच्च ज्वलत्खदिराङ्गारैर्निभृतवान् । पुनः सर्वान् पौरांस्तत्राहूय सीतामवादीत्हे सीते ! यदि त्वं शीलमखण्डितं बिभर्षि तर्हि त्वमधुना लोकसमक्षमस्मिन्नग्निकुण्डे प्रविश, यथा ते कलङ्कोऽपेतो भविष्यति । तच्छ्रुत्वा लवकुशाभ्यां पुत्राभ्यां सह सीता तत्राऽऽगत्य तस्थौ । चतुर्दिक्षु दिव्यं दिदृक्षवो लोकाः सबालाः सस्त्रियश्च समेत्य तस्थुः । देवा अपि विमानारूढा व्योम्नि समाजग्मुः । अत्राऽवसरे सीता पपाठ I
यथा
मनसि वचसि काये जागरे स्वप्नके वा, मम यदि पतिभावो राघवादन्यपुंसि । तदिह दह शरीरं मामकं पायक ! त्यं, सुकृतकुकृतभाजां त्वं हि लोकेऽत्र साक्षी
॥१॥
इत्युच्चैरुच्चार्य सा शीलवती सीता तत्राग्निकुण्डे पपात, परमेतच्छीलमाहात्म्यतस्तदैव ज्वलन्नग्निकुण्डः साक्षात् शीतलवारिकुण्डोऽभवत् । सरस इव ततोऽग्निकुण्डादक्षताङ्गी निरगात् । तदानीं तदुपरि सुरनरगणाः कुसुमानि ववृषुः सर्वे जयजयारावञ्चक्रुः । इत्थं लोकापवादमपगम्य संसारविरक्ता सती सीता चारित्र
-313