SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली जगाद- अरे निर्बुद्धे ! गृध्रोऽपि त्वामवञ्चत्तच्छ्रुत्वा शृगालस्तामवदत्भो राज्ञि ! ममैकमेव गतं त्वं तु त्रिभिर्वञ्चितासि । तदपश्यन्ती मां किं दूषयसि चोपहससि ? तदा राज्ञ्यूचे - हे शृगाल ! त्वं तिर्यग्भूत्वा कथमेतद्वेत्सि ? तत्रावसरे मार्गे जातं सर्वं वृत्तान्तं स तमवोचत । ततः सा राज्ञी प्रतिबुद्धा विषयवासनां तत्याज, तेन चिरं सा सुखमन्वभूत् । भो लोकाः ! पश्यत इत्थमन्या अपि याः स्त्रियो विषयवासनां दुर्गतिप्रदां मत्वा त्यक्ष्यन्ति ता अपि राज्ञीव सुखिन्यो भविष्यन्ति प्रान्ते च सद्गतिमाप्स्यन्ति । पुनर्याः स्त्रियो दुश्चरित्र - माचरिष्यन्ति ता नूपुरपण्डितेवाभयलोके दुःखिन्यो भविष्यन्ति चान्ते दुर्गतिमाप्स्यन्ति । अथ सुलक्षणस्त्रीणां गुणानाहशादूलविक्रीडित वृत्ते रूडी रूपवती सुशील सुगुणी लावण्य अंगे लसे, लज्जालु प्रियवादिनी प्रियतणे चित्ते सदा जे बसे । लीला यौवन उल्लसे उरवसी जाणे नृलोके वसी, एवी पुण्य तणे पसाय लहिये रामा रमा सारसी K या स्त्री कुलीना भवति सा हि सर्वाङ्गानवद्या लज्जावती रूपवती शीलवती सद्गुणवती लावण्य - लीलावती, मिष्टातिसत्यभाषिणी, भर्तृचित्तानुवर्त्तिनी देवीव सदा सुस्थिरयौवना लक्ष्मीरिव महापुण्यवता प्राप्यते ||१३|| - अथ कियतीनामुत्तमलक्षणवतीनां कामिनीनां नामानि दर्श्यन्ते उपजाति - वृत्ते - 310
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy