________________
सूक्तमुक्तावली सीता सुभद्रा नलराय-राणी, जे द्रौपदी शीलवती यखाणी । जे एहवी शीलगुणे सराणी, सुलक्षणा ते जगमाहि जाणी
॥१४॥ पुरा श्रीरामचन्द्रस्य पत्नी सीताऽभूत् । यामपहृत्य दशकन्धरः स्वगृहे षण्मासानस्थापयत् । तथापि नानाक्लेशं सहमानापि निजं शीलं न तत्याज | पुनर्लोकसमक्षं ज्वलत्खदिराऽङ्गारमयाग्रिकुण्डे पतित्वाऽक्षताङ्ग्येवशीलप्रभावाज्जलादिव बहिराययौ । लोकापवादमपाजते । यथा वा सीतासुभद्रादमयन्त्यादयः प्रातःस्मरणीयतमाः कीर्तिमत्यः पुरात्र महासत्योऽभूवन । या सुभद्रा चाऽऽमतन्तुभिश्चालनी बद्ध्वा कूपाज्जलमाजहे । पुनस्तेन वारिणा चम्पापुर्या द्वारमुद्घाट्य निजसतीत्वमहिमानं दर्शितवती । एवमरण्ये नलनृपेण पत्या त्यक्ता महाकष्टं सहमाना शीलमखण्डितं दधार सतीशिरोमणिर्दमयन्ती । एवं पाण्डवानां पत्नी द्रौपदी सदसि दुःशासनाऽऽकृष्टवसना शीलप्रभावादेव निजोत्तरीयवासोऽवर्धयत । एतादृश्यो या या ललना अत्राऽभूवन, तास्ता उत्तमाः सुलक्षणाः प्रशस्तयशस्काः प्रातःस्मरणीयाः सकलवाञ्छितफलदात्र्य आसन् ||१४||
९- शीलप्रभावान्महाग्निकुण्डोऽपि जलवदतिशीतलमभूत्तदुपरि सीतायाः कथा
यथा-पुरा रामपत्नी सीतांरावणो हृत्वालङ्कामनैषीत्तत्र षण्मासी यावत्सा तस्थौ । ततो युद्धे रावणं हत्वा सीतामयोध्यामनयत् ।
-311