SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली __ अथ निष्कासितौ मार्गे चलन्तौ कुत्रचिन्मन्दिरे निशि तस्थतुः | तत्र हस्तिपको निद्रितो जातो निशायां तत्र चौराः समाजग्मुः । अथ प्रतिमागेधूपंददतं रूपेणातिसुन्दरंचौरनायकं विलोक्य तदनुरागिणीभूय राज्ञी तमेवमवादीत-हे मच्चित्तमोहन ! मां हित्वा मा गाः । अहमपि त्वया सहैष्यामि । चौरोऽवदत्- हे सुन्दरि ! येन सह त्वमत्राऽऽगाः, स यद्युत्थास्यति तदा किं स्यादावयोरत्र प्राणभीतिरापतिष्यति । सा दध्यौ-असौ तस्करः सधनः प्रतीयते, हस्तिपकस्तु निर्धनः । किमनेनेति विमृश्य चौराधीशेन तमजीघनत्स मृत्वा व्यन्तरोऽभवत् । . अथ शृङ्गारसज्जितां राज्ञी शीलभ्रष्टां दुष्टां ज्ञात्वा चौराधीशो दध्यौ-इयमसती वर्तते। या हि सार्धमागतं स्वपति जारंवाघातितवती को जानेऽग्रे ममापि किङ्करिष्यति ? अत एषा त्याज्येति विमृश्य तामुवाच- हे प्रिये ! एषाऽगाधजला नदी वर्तते । अतस्तवाङ्गे यानि यान्याभरणादीनि सन्ति तानि सर्वाण्येकत्र वस्त्रखण्डे ग्रन्थिं बद्ध्वा मह्यं देहि । तत्तीर्खा परतीरे पूर्वं नयामि पश्चादागत्य त्वामप्युत्तारयिष्यामि । अथ मुग्धा हतभाग्या सा निजवस्त्राभरणादीनां ग्रन्थि बद्ध्वा तस्मा अदात् । सोऽपि तदीयं सर्वं लात्वा नदीं तीर्वाऽग्रे चचाल | तन्मार्ग प्रतीक्षमाणा किङ्कर्त्तव्यतामूढा सती सा तत्रैव तस्थौ। तत्रावसरे व्यन्तरीभूतो हस्तिपकजीवः शृगालमीनौ विकृतवान् । पुनर्यावत्स शृगालो मीनमशितुमैच्छत् तावत्तत्र तेनैव व्यन्तरेण विकृतः कश्चिद् गृध्रपक्षीः व्योम्नः समेत्य मीनमादाय गगनमगात्। शृगालो विच्छायवदनः पश्यन्नेव तस्थौ । अस्मिन्नवसरे तद्विलोकमाना राज्ञी तमुपहस्य -309
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy