SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली तव षण्मासादेकदापि नागता निद्रा परमद्य किं जातं यदीदृशी तवायाता ? इति राज्ञा पृष्टः सोऽवक्-तत्कारणं वक्तुं न शक्नोमि, तत्तु सर्वथाऽवाच्यमस्ति । अथ सत्रासं मुहुर्मुहुस्तेन पृष्टः सोऽवादीत्-यथावद्यत्कारणं कथयामि तत्सावधानेन श्रूयताम्-अद्य मध्यरात्रे राज्ञी गवाक्षस्थितां हस्तिपकः करिशुण्डादण्डेन गजस्कन्धेसमानिन्ये । ततो गजशालामागत्य चिरमनङ्गलीलां विधाय पुनस्तथैव तां तत्र गवाक्षे समानीय मुमोच । स्वामिन् ! भवादृशां दाराणामीदृशमनाचारमालोक्य निजपुत्रवध्वा जारसेवादर्शनान्महती षण्मासतो या चिन्ता ममाऽऽसीत्सा तु तदैव माममुञ्चत् । अतो ममेदृशी निद्रा समागता। - अथैतदाकर्ण्य तत्कालमेव सेवकान् समादिशद्राजा- भोः सेवका ! अद्यैव भवन्तस्तां राज्ञी तं हस्तिपकं तं दन्तिनञ्च नगरे प्रतिमार्ग पटहं वादयन्तो वैभारगिरि नयत । सेवकैस्तथाकृते । पुरलोका राजानमेवमभ्यर्थितवन्तः- हे नाथ ! अत्र दन्तिनः को दोषः? असौ सर्वथा निर्दोषः, अस्येदृशो दण्डः क्षम्यताम् । अथ सर्वेषामाग्रहेण दोष क्षान्त्वा तं परावर्तयितुं तत्र कमपि जनमप्रैषीत् । अथ स तत्रागत्य करिणं परावर्तयितुं नृपादेशमवदत् । तत्र समये गजपेनोक्तम्-यदि नृप आवयोरप्यमयदानं ददीत तर्हि दन्तिनमप्येनमधः परावर्तयेयमिति तज्जनमुखात्तद्धस्तिपप्रार्थनां श्रुत्वा राजा तयोरप्यभयदानमदात् । अथ त्रयोऽपि ततो गिरिशिखरादधः परावर्तन्त । ततो नृपादेशात्करिणंतत्स्थान आलाने बबन्ध । परममोच्यौ तौ स्वदेशान्निष्कासितवान् । 308
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy