SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली वान् । अथ स कोषालये दिवानिशं सर्वतः परिभ्राम्यन् रक्षन्नासीत् । ___ अथैकस्यां रात्रौ कस्याश्चिद्राजपत्न्या दुश्चरित्रं तेन वीक्षितम् । तदालोक्य तदैव स बुबुधे, चिन्तामपि तत्याज | अहो ! कामस्य बलीयस्त्वं यदर्दिता विश्वभर्तुः सार्वभौमस्य महाप्रतापिनोऽतिबलवतोऽपि भार्या नीचजारमासेवते । तर्हि मादृशां गृहे स्त्रीजातीनां का गणना ? अथ त्यक्तचिन्तस्य जर्जरस्य तदैव बुभुक्षा- पिपासासुषुप्सादयः समुत्पेदिरे | मासादलब्धनिद्रो जर्जरस्तथा सुष्वाप यथा मोक्षार्थी परब्रह्मणि संलीनो भवति । तदङ्गे कुत्रापि प्राणानां सञ्चारणं नाऽऽसीत् | यथा प्रारब्धमासिकषाण्मासिकादिवतावसाने लोको यथेष्टं भोजनशयनादिकृत्यं विधत्ते । तथैव सोऽपि वृद्धः पश्यतोहरः पुत्रवध्वा दुश्चेष्टां पश्यन् विहितषाण्मासिकजागरणरूपाभिग्रहो राजदाराकुचेष्टितं विलोक्य तदभिग्रहसमाप्ताविवातो गतचिन्तो निदद्रौ। ततो निशान्ते नगरचर्चा वीक्ष्य परावर्तमानो राजा तं जर्जरं कोष्ठागारे मृतमिव प्रसुप्तं व्यलोकत । अथ प्रभाते प्रधानमपृच्छत्-भोः प्रधान! जर्जरः कदापि न शेते, इत्युक्तं पुरा भवद्भिः, परमहं निशि तं मृतप्रायमिव सुप्तं दृष्टवान् । किङ्कारणं यत्सोऽद्यैतावत्कालं नोत्थितवान् सुप्त एवाऽस्ति । अथ सप्रधानो राजा तत्रागत्य तथैव सुसुप्तं तमालोकत, ततो नृपादिष्टो मन्त्री जागृतिकृते तमुच्चैरवदत्- भो जर्जर ! मध्याह्नवेलाऽऽगता, तथापितव निद्रावसानो नाऽभूत् कोऽत्र हेतुः? एतावतोपायेन स यदा नोत्तस्थौ, तदा तत्कर्णान्तिके भृशं चिरं मृदङ्गाद्यवादयत, इत्थं महता कष्टेन स समुत्थितवान् । तत्र समये तमपृच्छत्- हे जर्जर ! -307
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy