SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली पितापुत्रयोर्विवादे प्रवर्धमाने बहवो लोकाः समीपस्थास्तत्राऽऽगताः | तत्स्वरूपं ज्ञात्वा सर्वाः स्त्रियः सर्वे पुरुषाश्च पितरं जर्जरमेव निनिन्दुः । असौ प्रमत्तो जात इति जगदुश्च सर्वे । तेन स जर्जरो विचारसागरे ममज्ज । अहो ! किं जातं मया तु सर्वं तच्चरित्रं प्रत्यक्षीकृतं तथापि सर्वे मदुक्तमसत्यमेव मन्यन्ते निन्दन्ति च मामेव । इति चिन्तार्णवनिमग्नो जर्जरो मनागपि न निद्राति, नाऽश्नाति, न पिबति नैव च सौमनस्यं प्रकाशयति । अथ प्रभाते जाते सा समुत्थाय निजपितरमाकार्य नैशिकं वृत्तमशेषमवदत् । अथ रुदतीं पुत्रीमावास्य सोऽवक्- भोः सम्बन्धिन ! त्वं वृद्धोऽसि तथापि मे पुत्रीं मुधा किङ्कलङ्कयसि ? अत्रान्तरे सकलजनसमक्षं साऽवादीत्-एतावता मे सन्तोषो न भविष्यति । यदाह-"अतथ्यो वा तथ्यो हरति महिमानं जनरवः" अतोऽहं लोकसमक्षमेतद्विषये दिव्यशुद्धिं विधित्सामि । लोका ऊचुः- कीदृशीं शुद्धिञ्चिकीर्षसि ? तयोक्तम्- इहैव नगरे वाटिकायां भवानी देवी प्रत्यक्षफलदा वर्तते, सा मे सदसत्परीक्षां तत्कालमेव करिष्यति । अथैतद्वचसि सर्वैरङ्गीकृते सर्वेऽप्येवं जगदुः- यदियं निगदति तत्सत्यं चेदियं देवीचरणाधः प्रविश्य बहिरेष्यति । अन्यथा मध्ये मर्दिता तत्रैव प्राणान् हास्यति इत्युदीर्य सर्वे लोका देव्यन्तिके चेलुः । - इतश्चेतसि नूपुरपण्डिता दध्यौ-अहो ! सर्वेषां सन्निधौ यदि देवी पादतले मर्दिता स्यां तर्हि महती मेऽपकीर्तिरुदेष्यति । अतः प्रागेव स्त्रीचरित्रं विधेयमिति ध्यात्वा तं जारपुरुषमेवमवीवदत्- हे प्राणेश्वरः ! अहमद्य लोकैः सह दिव्यं विधातुं देव्यन्तिके यानि तदा मार्गे -305
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy