SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली ८ - अथ जारपल्यङ्के शयानाया नूपुरपण्डितायाः कथा | यथा राजगृहनगरे जर्जरनामा स्वर्णकारोऽस्ति । तस्यैकः पुत्रोऽस्ति स पित्रा परिणायितः परमेतस्य पत्नी व्यभिचारिणीशिरोमणिरस्ति । अथैकस्यां रात्रौ भर्तारं गृहान्तः सुप्तं मुक्त्वा स्थलान्तरे दिव्यां शय्यां विधाय जारमाहूय तेन सह रेमे । तदेतदनाचारमालोकमानो जर्जरस्तां जारञ्च निद्रितं वीक्ष्य तत्राऽऽगत्य वध्वा नूपुरमादाय पुनः स्वस्थानमेत्य सुष्वाप । नूपुरञ्च शय्योपरि न्यस्तवान् । अथ जागृता सा चरणे नूपुरमपश्यन्ती व्यचिन्तयत् - यदेतत् वशुरस्यैव कृत्यं नाऽन्यस्य, नूनमसौ प्रभाते लोकान् वदिष्यति मे दुश्चरित्रम् । अतो मयाप्येतत्फलं तस्य दर्शनीयमित्यवधार्य जारमुत्थाप्य निजालयमप्रैषीत्, स्वयं भर्तुः पार्श्वमागत्य सुष्वाप । | अथ किञ्चिद्विरम्य पतिमुत्थाप्य, यत्र शयने जारेण सह पुरा सुप्ताऽऽसीत्तत्रैव शयने समागत्य भर्त्रा सह पुनः शिश्ये, पतिरचिरादेव निद्रद्रौ । ततः सा सुप्तं तमवगत्य बुम्बारवं व्यधत्त - यथा हे नाथ ! द्रुतमुत्तिष्ठोत्तिष्ठ । पश्यानेन निस्त्रपेण तव पित्रा लज्जास्थानकेऽप्यत्र समागत्य मदीयं नूपुरमपजह्रे । अथ सहसैव समुत्थाय झटिति पितुः पार्श्वमागत्य तं ताडयितुं लग्नोऽवदच्च - अरे पापिष्ठ ! निर्लज्ज ! तत्र गत्वा पुत्रवधूचरणं स्पृशतस्ते मनागपि लज्जा नाऽऽगता ? धिक् त्वां धिक् त्वां ! तदा पित्रोक्तम्- रे पुत्र ! त्वं तदानीं नासीरन्यः कोऽप्यासीत् । पुनर्जगाद पुत्रः- रे दुर्बुद्धे ! अन्यः कोऽपि नाऽऽसीदहमेवाऽऽसम् । इत्थं 304
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy