________________
सूक्तमुक्तावली
अथैकस्यां रात्रौ नृपं सुप्तं विदित्वा सा जारान्तिकमागत्य तेन सह रन्त्वा पुनर्नृपान्तिकमागात् । तदन्तरेचकश्चन वणिक्पुत्रचौर्यव्यसनी तेनैव मार्गेण राजसौधं प्रविश्य नृपपल्यङ्काधस्तस्थौ । अथ जागृतो राजा तामपृच्छत्- अयि राज्ञि ! त्वमधुना कुत्राऽऽसीः ? साऽवक्नाथ ! लघुबाधां निवर्तयितुं गताऽऽसम् । पुनर्निद्रिते नृपे सा दध्यौअद्य मे दुश्चरित्रं राजा विदितवान् । इदानीं किमपि नोक्तं, प्रगे नूनमसौ सर्वं वदिष्यति । अतोऽधुनैव मया तत्प्रतीकारो विधेयः । यथा लोके निर्दोषा भविष्यामि, निर्बाधं भोगमपि तेन कामुकेन सह करिष्यामि ।
इति विचिन्त्य तदैव सा दुष्टा सुप्तं राजानं गलपाशबन्धनेन जघान । मृते च भर्तरि सा तारस्वरेण बाढं रुरोद- हा दैव! त्वमधुना मामनाथां कथमकृथाः ? मया भवान्तरे किं पापमकारि, येनेह जन्मनि दुःखोदधौ पतितास्मि । इत्थं नानाविधं सकरुणं विलपन्तीमुरः शिरश्च ताडयन्तीमालोक्य रक्षकाः प्रधानादयश्च तत्राऽऽजग्मुः | किमभूदिति पृष्टे साऽवक-हा! हा! हा!!! अकस्मादेव मे प्राणेश्वरो ममार । ततो मन्त्रिप्रमुखाः सर्वे लोका राजानंश्मशानभूमावानीयाऽग्निना संश्चक्रुः ।
अर्थतस्या घोरं पापकृत्यं शय्याधःस्थेन चौरेण वणिक्पुत्रेण विलोकितम् । तमपि बहुतरधनप्रदानेन संतोष्य, त्वमेतद्गदिष्यसि चेन्मारयिष्यामीति सत्रासं शिक्षां दत्त्वा च मुक्तवती । अतो वच्मि-हे लोकाः ! सर्वस्त्रीषु कदापि विश्वासो नैव कर्त्तव्यः । ताश्चानेकदोषसद्भावाद् दुष्टतरा एव भवन्ति ।
303