________________
सूक्तमुक्तावली तदैव शूलिकां त्रोटयित्वा स्वर्णमयसिंहासनञ्चक्रे |
अथैतदद्भुतमाकर्ण्यसपौरो राजा तत्राऽऽगात्सर्वेचतमालोक्य विस्मिता जाताः । अथ सुदर्शनं गजारूढं विधाय नृत्यगीतादिमहोत्सवेन नगरान्तः प्रावेशयत् । नृपस्तामभयां राज्ञी भ्रष्टशीलां विज्ञाय देशतो निष्कासयामास । अतो वच्मि हे स्त्रियः ! भवत्यस्तथा मा भूवन ।
वसंततिलका-वृत्तेमास्यो प्रदेशि सुरिकांत विषायलीये, राजा यशोधर हण्यो नयनावलीये । दुःखी कस्यो धशुर नूपुरपण्डिताये, दोषी त्रिया इम भणी इण दोषताये
॥१२॥ विषयसुखलोभादेव पुरा काचित्सूरिकान्ता राज्ञी निजभर्तारं प्रदेशिराजं गरलं प्रदाय जिहिंस | तथा नयनावल्यपि राज्ञी विषयसुखलोभाऽऽक्रान्ता निजप्राणेश्वरं यशोधरं नृपं गले दृढं पाशं बद्ध्वाऽवधीत् | काचिदेका नूपुरविदग्धा स्वर्णकारस्त्री स्वकीयदुश्चरित्रमपह्रोतुं पति छलयित्वा चशुरं भृशं दुःखिनमकरोत् । हे स्त्रिय! ईदृशाऽनार्याचरणेन सर्वाः स्त्रियो दूष्यन्ते । अतो भवतीभिः सर्वथा दुराचारं तत्त्याज्यमेव ||१२|| ७-अथ यशोधरनृपघातुकीनयनावल्याः प्रबन्धः
तथाहि-यशोधरक्षितिपस्य नयनावली राज्ञी केनचिद् जारेण विषयासक्ताऽऽसीत् । भासह स्वैरं भोगं भुञ्जानापितृप्तिमनधिगच्छन्ती निशि कस्यचनाऽश्वपालनायकस्यान्तिकं गत्वा स्वैरं रममाणासीत् । प्रतिरात्रमित्थमाचरन्ती सुखेन कालं व्यत्येति । 302