________________
सूक्तमुक्तावली जायते । अथैवमाकर्ण्य सा तं विससर्ज।
ततः कियद्दिनानन्तरं सा राज्ञी गवाक्षे स्थिता पथि तुरङ्गारूढान्देवकुमारानिव गच्छतस्तारुण्यादिगुणशालिनः षट् पुरुषानद्राक्षीत् । तदानीं तत्पार्थे प्रधानभार्या कपिलाभिधाना दासी च स्थितासीत् ।
अथ राज्ञी पृष्टवती- अयि वयस्ये! एते व्रजन्तः कस्य पुत्राः सन्ति ? दास्यूचे- स्वामिनि ! अमी षट् कुमाराः सुदर्शनश्रेष्ठिनः सन्ति । अथैवमाह राज्ञी- भो दासि ! तस्य पौरुषहीनस्य षट्सुताः कथमभूवन ? कपिला जगाद- हे स्वामिनि ! स धूर्तोऽतस्तथा कथयित्वा त्वां कामुकीमवञ्चयत् । पौरुषं विना तस्य देहलावण्यादिकं कथं संभाव्यते ?
तदनु सा राज्ञी तदुपरि रुष्टा सती दास्या विचार्य मुधैव सुदर्शनस्य कलङ्कमारोपितवती । तथाहि-तत्प्रेरिता कपिला राजानमेवं व्यजिज्ञपत्-हे स्वामिन् ! अद्यान्तःपुरे मम स्वामिन्या आवासे सहसैव सुदर्शनश्रेष्ठी समागात् । ततश्च मम स्वामिन्या अभयाराड्याः शीलं खण्डयितुमियेष | राजन् ! महता क्लेशेन मयाऽद्य स निष्कासितः । त्वयि शासति साधारणस्यापि गृहमागत्य कोऽपि कदाचिदप्येवं नाचरति । तेन तु तवैव प्रेयस्याः सुशीलाया आलयं प्रविश्येदृशमनार्यमाचरितम् । अतस्तस्मै योग्यं दण्डं देहि नो चेन्मम स्वामिनी जीवितमेव त्यक्ष्यति।
अथैतदाकर्ण्य कोपाग्निज्वलितो नृपस्तस्य शूलारोपणमादिशत् । ततो नृपादेशात्तादृशा भटाः सुदर्शनं तत्स्थाने बलादानीय शूलिकायामारोपयामासुः, परन्तु तदखण्डशीलप्रभावतः शासनदेवता
-301