________________
सूक्तमुक्तावली अथ खीदोष-विषयेभर्ता हण्यो जे पतिमारिकाये, नाख्यो नदीमां सुकुमालिकाये । सुदर्शन श्रेष्ठि सुशील राख्यो, ते आल देई अभयाय दाख्यो
॥११॥ __अथ तासामेव दोषमाह, यथा-काचिच्छुकुमालिकाभिधाना दुष्टा स्त्री सरलस्नेहप्रकृतिकं निजवल्लभमपि जितशत्रुनृपं गङ्गाम्भसि न्यपातयत, एषा कथा विस्तरतः पुरात्र कीर्तितास्ति, तथा सुदर्शनाभिधानः प्रख्यातः श्रेष्ठी स्वशीलगुणपाली सहसैवाऽभयाख्यया राज्या मुधा कलङ्कितोऽभूत् ।।११।।
६- अथ सुदर्शनश्रेष्ठिनमभया राज्ञी कलयामास, तयोः कथापुरा किल पाटलीपुरनगरे सुदर्शनाभिधानः श्रेष्ठी निवसति स्म । सोऽतीवसुन्दरः सुशीलश्चासीत्तमेकदाऽभयाख्या राज्ञी विलोक्य तस्मिन रागवती जाता। तत एकदा केनापि व्याजेन दास्या स्वान्तिके तमानायितवती । तमागतं वीक्ष्य मन्दं मन्दं हसन्ती भृशं कटाक्षयन्ती नानाहावभावं प्रकाशयन्ती मदनविलासमभ्यार्थयत ।।
तथाहि-हे नाथ! मामधुना भृशं बाधते मदनस्त्वदीयरूपतारुण्यविलोकनादतो मया सह यथेष्टं रमस्व | इत्थं तत्प्रार्थनं निशम्य निजशीलरक्षायै स तामवदीत- अयि राज्ञि! तवोक्तं सत्यमस्ति परं किं कुर्याम् ? पौरुषमेव नास्ति मयि, तदभावान्मदनेऽपि चैतन्यं न 300