________________
सूक्तमुक्तावली जे विधे उपगारि ने उपगरे वाणी सुधा जे लये । पूरा पूनम चन्द्र जेम सुगुणा जे धीर मेरु समा, जे गंभीर सदा सुसायर जिसा ते मानवा उत्तमा ॥७॥
यो हि सदैव परेषां गुणग्राहको भवति, दोषांश्च न ख्यापयति, जगदुपकरोति, परकृतमुपकारं सदैव मनुते, तथा सुधामिव मधुरां सत्यां वाणीं वदति, कदाचिदसत्यमप्रियं न भाषते, तथा शारदपार्वणशर्वरीश इव सकलसद्गुणवान, मेरुवदचलः, समुद्र इव गम्भीरः, ईदृशो जन उत्तमः कीर्त्यते, अत एव लोकैरुत्तमैरिति भाव्यम् ||७||
५- अथ परकीयस्तोकमपि गुणमुदाहरतस्तथा
दोषमपलपतः श्रीकृष्णस्य कथा
अथैकदा सौधर्मेन्द्रः सभासीनः श्रीकृष्णं समस्तावीत्- भो भोः सभ्याः ! साम्प्रतं मर्त्यलोके श्रीकृष्ण इव गुणग्राही कोऽप्यन्यो नास्तीति । तदसहमानः कोऽपि मिथ्यात्वी देवस्तं परीक्षितुं मृत्युलोकमागात् ।
तत्रावसरे श्रीकृष्णो रथवाटिकातः परावर्तमानः स्वनगरमागच्छन्नासीन्मार्गे। अथैतदवसरेस एव मिथ्यादृष्टिदेवश्चलत्कोटिकीटाऽऽकीर्णस्यातिदुर्गन्धमयस्य मृतस्य शुनो रूपं विधाय मध्येमार्ग तस्थिवान् । तदीयदुर्गन्धियोगाद्गजतुरगादयो विवेकविकलाः पशवोऽपि तन्मार्गेण गन्तुं न शेकुः । पुनर्मनुष्याणान्तु का वार्ता ? अर्थतत्स्वरूपं विलोक्य गुणरागी कृष्णो हस्तिपकमपृच्छत्- किं भोः ! कथमग्रे हस्ती न चलति? यूयमपि वस्त्रेण घ्राणमवरुध्य कथं तिष्ठथ ?
-297