________________
सूक्तमुक्तावली अथ सोऽवदत्- स्वामिन् ! मार्गे मृतो विकृतो दुर्गन्धिमयः श्वा तिष्ठति । तदीयातिदुर्गन्धितः केऽप्यग्रे चलितुं न प्रभवन्ति । तच्छुत्वा स्वयमेव हठाद्गजमग्रेसमानीय शान्तिके तिष्ठन्नधोदृष्टिः कृष्णोऽवकभो भो लोकाः ! एतस्य गुणान्कथं न गृह्णीथ ? सेवका ऊचुः-स्वामिन ! वयमेतस्मिन्नेकमपि गुणं न पश्यामः, किन्तु दोषानेव वीक्षामहे । अथ वासुदेवोऽवदत्- अहो ! मौक्तिकश्रेणीव समुज्ज्वला दन्तावली शोभतेऽस्य शुनः । अन्येऽपि विलसन्त्यस्मिन् सद्गुणास्तथापि यूयमेनमगुणं कथं वदथ ?।
इत्थं गुणग्राही कृष्णस्तस्य दोषानपश्यन गुणानेव जग्राह । उचितमेव तदेतादृशं गुणिनां गुणग्राहित्वं । अथ स देवोऽपि प्रत्यक्षीभूय श्रीकृष्णं प्रणिपत्य संस्तुत्य च सौधर्मेन्द्रसभामागत्य श्रीकृष्णस्य यथावद्गुणं प्रशशंस । अत उत्तमेन पुंसा गुणग्राहिणा भाव्यं तथैव गुण्यपि यथारूपसौभाग्यसम्पन्नाः, सत्त्यादिगुणशोभनाः । ते लोके विरला धीराः, श्रीरामसदृशा नराः ॥
इह लोके राम-कृष्णासदृशा रूपसौभाग्यशौर्योदार्याऽऽदिगुणैः शोभमानाः परगुणग्राहिणः सत्यप्रतिज्ञा विरला एव भवन्ति ||८||
अथ पुरुषदोषविषये शार्दूलविक्रीडित-वृत्तम्लंकासामि हरन्ति राम तजि ते सीता भली जानकी, स्त्री वेची हरिचंद पाण्डयनूपे कृष्णा न राखी सकी। रात्रे छांडि निजप्रिया नलनृपे ए दोष मोटा भणी, . जोयो उत्तम माहिं दोष गणना का यात बीजा तणी? ॥९॥ 298