SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली २- अथ वनेचौं विलोक्य ' विषयसुखप्रार्थयितुः हरस्य कथा एकदा महादेवो वने तपस्यन्नासीत्तत्सज्ज्ञानध्यानादिपरीक्षाकृते चातीवसौन्दर्यरूपं बिभ्राणा गिरिजा वनेचरीवेषेण तत्पुर आगत्य तस्थौ, तदा तद्रूपकटाक्षवीक्षणमृदुहासादिहावभावैः समुद्भूतमदनोद्रेकः स तामयाचत रतिम् । अथ कामवशङ्गतं तमवादीत्सा- हे त्रिपुरहर ! अहं त्वां सेविष्ये । परमेकदा करं शिरसि दत्त्वा, तथैकपाणिं कटिप्रदेशे निधाय स्वनृत्यं मां दर्शय । तत्रावसरे रतिलोभवशात्तपस्यामपि त्यक्त्वा तेन तदप्यङ्गीचक्रे । अहो! तर्हि संसारे साधारणस्य पुरुषस्य का गतिः ? अतः कामजयोऽतीव कठिनोऽस्ति । य एनं जयति स एवात्मकल्याणं विधातुमर्हति नाऽन्ये इत्येवपरमार्थः । अथ कन्दर्पोन्मादविषये मालिनी-वृत्तेनल नृप दमयन्ती देखि चारित्र-चाले, अरहन रहनेमी ते तपस्या विटाले । चरमजिन-मुनी जे चेलणा रूप मोहे, मयण रस व्यथाना एह उन्माद सोहे . ॥५॥ यथा गृहीतसंयमस्यापि नलराजर्षेः साध्वीं दमयन्तीं व्यालोक्य मनो विव्यथे । यथा वा श्रीनेमिनाथस्य भगवतो भ्राता रथनेमिमुनिः कृतकायोत्सर्गध्यानो राजीमत्याः संयमिन्या अनावृतमङ्गमालोक्य ध्यानतो व्यरंस्त । एवं वीरस्य भगवतोऽन्तेवासिनः संयमधारिणो मुनयोऽपि श्रेणिकराजपत्नी चेल्लणारूपदर्शनाद व्यामुह्यन् । अहो ! प्रादुर्भूते कन्दर्प स्त्रीदर्शनाद्यल्लोकानां मनांसि क्षुभ्यन्ति स एव -293
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy