________________
सूक्तमुक्तावली चवीरप्रभुमभिवन्द्य स्वालयमागत्य महताग्रहेण मातापित्रोः पत्नीनाञ्चादेशं लात्वा वीरान्तिकं दीक्षार्थी स आगात् । तत्रावसरे व्योमवागजायत यथा- हे नन्दिषेण ! तवेदानी भोग्यकर्माण्यवशिष्यन्ते तानि भुक्ष्व तदन्ते चारित्रमादेयमिति । परमसौ तामप्यगणयन् तदैव भगवदन्तिके दीक्षामग्रहीत्।
ततो भाविवशात्कालान्तरेणाऽज्ञानतः सोऽन्यदा गोचर्यै गणिकागेहं प्राविशत् । तत्र च प्राक्तनभोग्यकर्मोदयाद् द्वादशवर्षाणि स्थित्वा तां भुआनः कर्मक्षयमकरोत्, तदनु तां विहाय स्वात्मश्रेयोऽसाधयत् ।
अहो ! मदनप्राबल्यं कीदृगस्ति यदीदृशमपि साहसिकं स्ववशमकरोत्तहस्तरेषां का वार्ता ? अतो विषयतो दूरमेव स्थेयं श्रेयोऽर्थिभिः सकलैरिति । एतत्कथानकमत्रैवाऽर्थवर्गे १६ नन्दिषेणतपःप्रबन्धे लिखितमस्ति तत्रैव विशदतयावलोकनीयमिति, अत्र तु प्रसङ्गतः संक्षेपेणैवाऽदर्शि।
अथ १-काम-विषयेउपजाति-छन्दःकन्दर्पपञ्चाननतेज आगे, कुरंग जेवा जग जीय लागे । स्त्री शस्त्र लेई जग जे विदीता, जे एण देवा जनयून्द जीता
॥२॥ अस्मिन् भवारण्ये बलीयानसौ स्मरः पञ्चानन इव दुर्जयो विलसति। सिंहस्य यथा चत्वारोहस्ता मुखञ्च पञ्चममस्ति तथाऽस्यापि शब्दादिविषयाः पञ्चाननानीव विद्यन्ते । यथा मृगारातेः पुरतो मृगादयो
-291