________________
सूक्तमुक्तावली १-अथ कामभोगे तथा तच्यागोपरि
नन्दिषेणमुनेः कथानकम्इहैव मगधदेशे श्रेणिको नाम राजास्ति, तदीयो नन्दिषेणनामा कुमारो विद्यते । स च स्वानुरूपाभिः पञ्चशतीभिः कन्याभिः पित्रा परिणायितः सुखमनुभवन्नस्ति ।
अथैकदा तत्र नगरे कुत्रचिदुपवने गुणशीलनाम्नि चैत्ये श्रीमहावीरप्रभुरागतः । तत्र भुवनपतिव्यन्तरज्योतिष्कवैमानिकैर्देवैस्तदीयसमवसरणं चक्रे, तच्च पृथ्वीतः सार्धक्रोशद्वयोन्नतं जज्ञे । तदारोढुं चतुर्दिक्षु कृतहस्तान्तरालानि चाशीतिसहस्रसोपानानि व्यधुः | तत्र च पूर्वस्यां दिशि सिंहासनोपरि 'नमो तित्थस्स' इत्युदीर्य श्रीवीरप्रभुर्विरराज । तथाऽवशिष्टासु दिक्षु ते देवाः सिंहासनोपरि प्रभोर्मूर्तिमतिष्ठिपन् । तत्रावसरे भगवान् वीरो देशनां ददते, सा च चतुर्विधदानशीलतपोभावनारूपा मुक्तिमार्गस्य द्वारमिव भाति स्म ।
एतत्स्वरूपं वनपालः श्रेणिकराजाय निवेदितवान् । तदा हृष्टो राजा तस्मै बहुदानमदात् । प्रभोरागमनहर्षतो राज्ञः सकलानि रोमकूपानि समुत्तस्थुः । अथ तदैव क्षोणीपतिर्नन्दिषेणतनयेन तथाऽभयकुमारप्रधानवर्गः पौरजनैश्च सह वीरप्रभोर्वन्दनार्थं तत्राऽऽगात् । अथो दूरादेव समवसरणमालोक्य खड्गच्छत्रचामरादीनि राजचिह्नानि सोऽत्यजत् ।
अथ तत्र समवसरणे समागतो नृपः प्रभुं त्रिःप्रदक्षिणीकृत्य समभिवन्द्याऽष्टोत्तरसहस्रकाव्यैः संस्तुत्य स्वोचितस्थानके समुपाविशत् । देशनाश्रवणतो नन्दिषेणेन संसारममुमसारमबोधि । देशनान्ते
290