SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली अथ तृतीयः कामवर्गः प्रारभ्यते उपजाति-वृत्तेग्राह्याः कियन्तः किल कामवर्ग, कामो नूनायों गुणदोषभाजः । सुलक्षणैर्योगवियोगयुक्तैः, समातृपितृप्रमुखाः प्रसङ्गाः ॥१॥ तत्र कामः १, पुरुषगुणदोषौ २, स्त्रीगुणदोषौ ३, संयोगवियोगौ ४, मातृ-कर्त्तव्यं ५, पितृ-वात्सल्यं ६, प्रमुखशब्दात्-पुत्र-वर्णनं ७, चेत्यस्मिन् 'कामवर्गे' सप्तविषयाः क्रमेण वर्ण्यन्ते ।।१।। अस्मिन्संसारे कन्दर्पदर्पः प्रबलो दुर्जयो भासते । तस्य विजेता कोऽपि सुपुण्यशाली विरल एवाऽस्ति । स कामस्तु ब्रह्मादिकमशेषं जगद्विजयते । किञ्च-तत्पारवश्यं नीता नरा विमूढा इव नितान्तं क्लिश्यन्ति । सदसद्विवेकशून्यास्तथा जगत्यात्मभूजेतारो विरलाः सत्पुरुषा एव जायन्ते यदाह"केचित्प्रचण्डगजराजविनाशदक्षाः, कन्दर्पदर्पदलने विरला मनुष्याः । श्रीस्थूलिभद्रमुनिराजमुखा हि सन्ति, त्रैलोक्यजेतृमदनप्रशमेऽतिदक्षाः" ॥१॥ ... किञ्च-मदनवशङ्गतो नन्दिषेणो द्वादशवर्षाणि गणिकालये तिष्ठन् तया सह विषयसुखं भुञ्जान आसीत्ततः संयमे दायमाप्तवान् । मदनजेतार एव जनाआत्मश्रेयः साधयन्ति । पुरा कामपारतन्त्र्यं नीतः पश्चाद्विनिर्जितस्मरो नन्दिषेणआत्मसाधनमकरोदत उपयुक्ततया तत्कथाऽत्र लिख्यते -289
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy