________________
सूक्तमुक्तावली २२-अथ लज्जया प्रव्रजितभावदेवस्य
तद्भातृभवदेवस्य कथातथाहि-सुग्रीवनाम्नि नगरे भवदेवभावदेवनामानौ भ्रातरावभूतां, तयोर्मध्ये ज्यायान् भवदेवः प्रव्रजितोऽभवत् । स चैकदा तत्रैव नगरे मुनिभिः सह विहरन्नागात् । स गोचरीकृते नगरे भ्राम्यन भ्रातुविवाहसमारोहमपश्यत् । तत्राऽऽगतं बन्धुमालोक्य भावदेवस्तत्संमुखमेत्य भक्तिस्नेहाभ्यामधिकं प्रत्यलाभयत् । तद्वोढुमशक्तं भवदेवमुनि मत्वा सोऽवदत्-हे बन्धो ! एतावद्वहनेन ते क्लेशः स्यादतो ममापि पात्रादिकं देहि यत्त्वत्स्थाने सुखेन तन्नेष्यामि । इत्थं भ्रात्राभ्यर्थितः पात्रादिकं तस्मै ददौ ।
ततोद्वावपि भ्रातरौ चेलतुः। समीपमागच्छन्तौ तौ विलोक्याऽन्ये कियन्तः साधवस्तदभिमुखमागत्य जगदुः- अहो ! धन्योऽसि यदद्य नवपरिणीतमपि भ्रातरं प्रतिबोध्य साधुमकृथाः । तदाकर्ण्य भावदेवो मनसि दध्यौ- अहो ! किं कर्त्तव्यम् ? यदीतो गृहं यामि तर्हि मे भ्रातरमेते किलोपहसिष्यन्ति । मम मातरमपि निन्दिष्यन्तीत्यादि विमृश्य तदैव लज्जावशप्रतिबुद्धो भावदेवोऽपि दीक्षामग्रहीत् । भवदेवमुनिश्चारित्रं परिपाल्य स्वायुःक्षये मृत्वा देवोऽभवत् । .. अथ तस्मिन्मृते भावदेवेन व्यचिन्ति-मया स्वेच्छया दीक्षा न गृहीता, किन्तुबन्धुलज्जयास बन्धुः परलोकमगात्। गृहे च नवपरिणीता पत्न्यपि मन्मार्ग पश्यन्ती भविष्यति । अतो मया गृहं गन्तव्यमिति विचार्य साधुलिङ्गं त्यक्त्वा परावर्तमानः स तत्र नगरे समागत्य नगरसमीपे कुत्रचित्प्रासादे समुपाविशत् । तावत्तत्र केनापि हेतुना
286