________________
सूक्तमुक्तावली समागता नागिलाख्या तत्पत्नी तं स्वभारमुपलक्ष्य भ्रान्तचित्तं तं प्रतिबोध्य संयमे सुस्थिरमकरोत् ।
___ एष भावदेवो जम्बूस्वामिजीव आसीदसौ लज्जया दीक्षा ललौ। प्रान्तेऽपिस्त्रीवचसा स्थैर्यमासाद्य स्वात्मार्थमसाधयदतोऽन्यैरप्येवं लज्जा मन्तव्या । येन तस्य जनस्यापि सर्वेप्सितकार्य सिध्यति ।
लक्ष्म्युपसंहारः, शालिनी-छन्दसिएवा जे जे रुयडा भाव राजे, एणे विथे अर्थ थी तेह छाजे । एq जाणी सार ए सौख्य केरो, ते धीरो जे अर्थ अर्ज भलेरो
॥३५॥ अतः हे प्राणिनः ! यूयं यदि सुखं वाञ्छथ तर्हि धीरतयाऽर्थोपार्जनं कुरुत । अर्थ विना महान्तोऽपि नैव शोभन्ते । तद्वैकल्ये रामचन्द्रमपि पथिकाः लुब्धकमजल्पन् । अतो लोके सर्वतः श्रेयसी सम्पत्तिरेवास्तीति मत्वा तदर्जनं सर्वैविधेयमेवेति ||३५||
अथ राज्याभिषेकावसरे पितुर्वनवासाऽऽदेशेन ससीतः सलक्ष्मणो रामो वनाय गच्छन् मार्गे केनापि पथिकेन व्यलोकि | तत्रावसरे तदन्येन पान्थेन स पृष्ट:- किं भोः ! कोऽयमदृष्टपूर्वोऽनीदृक् पुरुषो गच्छन् वीक्ष्यते । तदाकर्ण्य तेनोक्तमसौ कोऽपि आखेटको भविष्यति ? तयोरीदृशं वचनमाकर्णयन् रामो जगाद"लखमण लखमी बाहिर, नर लहुआ दीसंत । तुझ सरिखा धणुहर घरे, पंथी व्याथ भणन्त
॥५॥ लक्ष्मी विना महानपि पुमान्न शोभते, अतो लक्ष्मीरुपार्जनीया
-287