________________
सूक्तमुक्तावली जायते । भवद्भिरपि किञ्चित्किञ्चिद् गृह्यतां, विभज्य भवद्भिगृहीतायां तस्यां ममाल्पैव स्थास्यति । तैरुक्तं- भोः सुलस ! त्वमिदानीमुदरं निजकरेणैव संमई शूलमुत्पादयन्निव स्वयमेव पादं छित्त्वा वेदनामुत्पादितवानसि । पुनरस्मांस्तां वेदनां विभज्य लातुं कथयसि | साऽस्माभिः कथं गृह्येत ? यतः स्वकृतं कर्म स्वेनैव भुज्यते ।
तच्छ्रत्वा सुलसोऽवदत्- भोः कुटुम्ब ! यदीमामल्पीयसीं वेदनां भवद्भिर्विभज्य लातुं न शक्यते तर्हि जीवघातोद्भूतमहापापं मत्कृतं भवन्तः संविभज्य कथं लास्यन्ति ? अतो येन यादृशं धर्म्यमधयं वा कार्य क्रियते, तेनैवाऽत्र परत्र च सुखदुःखात्मकं तत्परिपाकं भुज्यते । अन्यकृतं कर्मचाऽन्यैर्नैव भुज्यत इति सिद्धान्तितं वीतरागैरतोऽहं भवत्प्रेरितो न कदापि पितृकृत्यं करिष्यामीति सुलसोक्तमाकर्णयन्तस्ते सर्वे तत्सत्यं मेनिरे ।
किच्चाऽत्र संसारे यथा पक्षिणो निशि कुत्राप्येकत्र वृक्ष तिष्ठन्ति प्रगेच ते दशदिक्षु यान्ति। तथा मनुष्य अप्येकत्र पुत्रकलत्रबन्धुमित्रादिभिः सह तिष्ठन्ति मृत्वा च पुनर्यत्र तत्र स्वर्गनरकादौ गच्छन्ति । पुनरेकत्र पक्षिण इवेमे परिवारा नैव मिलन्ति । ततोऽहं पापं दुर्गतिदायकं कदापि नैव चिकीर्षामि । अथैतद्धर्मनिश्चयं मत्वा ते कुटुम्बाः स्वस्वकृत्ये लगाः । सुलसोऽपि कुमारमापृच्छ्य धर्मे दाय विदधद्धर्ममाराधयन्नायुषः क्षये कालं कृत्वा धर्मप्रभावाद्देवो जातः |
भोः प्राणिनः ! एतत्कथासारमेतदेवाऽवगच्छत यत्कालिकशूलिको मांसाशित्वादत्राऽसह्यमवाच्यमनेकविधं दुःखमनुभूय परत्र सप्तमंमहादुःखप्रदं नरकमाप । तत्पुत्रः सुलसस्तत्प्रत्याख्यायधर्ममाराध्य
253