________________
सूक्तमुक्तावली
देवगतिमीयिवान् । अतो भवन्तो मांसाशनं त्यजत धर्ममाराधयत ।
अथ १२ - चौर्य - विषयेइन्द्रवज्रा-वृत्तम्
चोरी करन्तां भय चित्त भ्रान्ति, विश्वास जाये नहि सौख्य शान्ति ।
दोनुं हि लोके बहु दुःख भोगे, मंडीक जैसे इणही कुजोगे
॥२५॥
चौर्यं कुर्वतामधमानां चेतः सततं भीत्या भ्रान्तमिव लक्ष्यते, ततस्तेषु दस्युषु केऽपि नो विश्वसन्ति । पुनस्तद्योगादेव मण्डीकनामा तस्करोऽस्मिन् लोके मारितस्ताडितोऽतिनिन्दया सह शूलिकारो - पितोऽतिकष्टमसहत । ततः परत्र स चातिदुस्सहां नारकीं वेदनामन्वभूत् । अतस्सभ्यैर्भव्यैर्दुःखसन्ततिमूलं स्तैन्यं त्याज्यमेव ||२५||
१२ - अथ चौर्यविषये मण्डीकचोरस्य प्रबन्धः -
यथा-बेनानदीतीरे श्मशानभूमौ मण्डीकनामा चौरो गुप्ते भूमिगृहे निवसति । तस्यैका भगिनी कुमारी वर्तते स च गृहान्तः कूपमेकं कृतवानस्ति स चोरितं धनं येन भारवाहिना समानयति तं सर्वं तत्र कूपे पादप्रक्षालनव्याजात्पातयति, यथा स ततो बहिरेतुं न शक्नुयात् ।
स रात्रौ चोरयति दिने च नृपसदनप्रकारान्तिके समुपविष्टस्तत्रागतलोकानां वसनानि सिवनार्थं गृह्णाति, पुनस्तानि नानाविधानि सेवित्वा तत्प्रदातुं तद्गृहे याति । तत्र गत्वा सर्वत्र विलोक्य तद्भेदं जानाति रात्रौ च दिनदृष्टं सर्वस्वं तस्य चोरयति । इत्थं महाचौर स पौराणां सर्वेषां धनादिसर्वस्वं चोरयामास परं कदापि केनापि न धृतः ।
I
254