________________
सूक्तमुक्तावली धर्मन्तु स्वप्नेऽपि नाऽकृत । अतस्तस्य सुखकृत्कृतोऽप्युपायो नाभूत, खरोष्ट्रादेरिव तस्य क्लिष्टोपचारैरेव शान्तिर्भविष्यति । अतःपरं भूमौ सूचीमुखाऽऽयसास्तरणे तं स्वापय यदा तस्य पिपासा भवेत्तदा त्वरितमत्युष्णं वारि पायय शीतलं सुस्वादु जलं मा देहि । तदङ्गेषु सुरभिशीतलं तैलं मा मर्दय, किन्तु विष्ठामेव विलेपय, तदा स सुखी भविष्यति नान्यथेति निश्चितं जानीहि । ___अथ कुमारकथनानुसारतस्तथैव कृते तस्य शान्तिरभूत्तदा तेनोक्तम्- हे पुत्र ! अद्येयं शय्या सुखकरी विद्यते । जलमप्यद्य शीतलं सुखयति, लेपोऽपि सुरभिर्मह्यमधिकं रोचते । एतावद्दिनमीदृश उपचारस्त्वया कथं न विदधे? अथैवमतिगर्हितैरुपचारैः सुखं मन्यमानः स आयुःक्षये मृत्वा सप्तमं नरकं प्राप ।
अथ तदन्तिमक्रियाकरणानन्तरं सर्वोऽपि तत्कुटुम्बवर्गः सुलसं प्रत्यवोचत- हे सुलस ! त्वमिदानीं पितृकृत्यमाचर कुटुम्ब पोषय, नो चेदस्माकं का गतिर्भविष्यति ? तदा सुलसोऽवदत्- भोः कुटुम्बवर्ग! त्वदुक्तं सत्यमस्ति परंतथाचरणेन पिता मे यादृशीं दुःखवेदनामन्वभूत्सा भवद्भिरपि दृष्टा । अहमपि तथा करणेन तामेव यातनां मोक्ष्येऽतोऽहमेतत्पापं न चिकीर्षामि।
तदा तैरुक्तं- हे सुलस! तत्पापतो मा भैषीर्यतः सर्वेऽपि वयं तत्पापं समं विभज्य लास्यामः, ततस्तव तादृशी वेदना नोदेष्यति । तत्रावसरे सुलसस्तत्समक्षमेव समीपस्थेन कुठारेण निजचरणमभाङ्क्षीत् । तदा तदुदितवेदनार्दितः स सुलसः परिवारमवक् - हे मातः ! हे भ्रातः ! हे मित्र ! ममेदानी कुठाराघातेनाऽसह्या वेदना
252