________________
सूक्तमुक्तावली मांसभक्षणं प्रत्याचख्युः ।
• सर्वे जीवाः सर्वतः प्रियतमा जीविताशामेव वहन्ति मृत्यु नैव वाञ्छन्ति । अतो जीवं हत्वा ये तन्मांसमश्नन्ति तेऽवश्यं नरकं व्रजन्ति-तस्मान् मांसभक्षणं सर्वथा सर्वैस्त्याज्यमेव । पुनरेतदेव स्पष्टीकर्तुमाहयथा ये मांसाशिनो भवन्तितेमहान्ति दुःखानि प्राप्नुवन्ति मृत्वा चान्तेऽवश्यमेव कालिकशूलिकप्रमुखा इव नरकमधिगच्छन्ति ।
११-अथ मांसभक्षणानरकं प्राप्तस्य कालिकशूलिकस्य पुनस्तच्यागतः
स्वर्गतस्य सुलसस्य कथायथा-राजगृहे नगरे कालिकशूलिको मांसाशी निवसति । मांसधनलोलुपत्वात्प्रत्यहं स पञ्चशतमहिषान् निहन्ति । इत्थमाजन्म जीवान्निघ्नतस्तस्य वार्धक्ये मरणसमये महादुःखमुत्पेदे । दुःखार्तस्य तातस्य तद्दुःखावघाताय नानाविधचिकित्सामकारयत्सुलसः परं कृतेषु प्रतीकारेषु ह्यधिकमेव जातम् ।
__तदा सुलसः पितुर्दुःखापनोदार्थमभयकुमारपार्थमागत्य नमस्कृत्य व्यजिज्ञपत- हे स्वामिन् ! मया पितुर्दुःखोपशमाय बहव उपायाः कृताः, परमुपाये सति तापशान्तिन जायते, किन्त्वधिकं वर्धते, तत्र को हेतुरिति कथय ? इति सुलसप्रश्नमाकलय्य कुमारेणाचिन्ति
असौ महापापी नूनं नरकं यास्यति-तत ईदृशीं वेदनामनुभवति। ततस्तमेवमवादीत्-हे सुलस! तव पिता यावज्जीवं क्रूरकर्माऽकरोद्,
-251