________________
देवीचन्द्रं वज्रपातोऽभवत् । मृतिक्रूरताण्डवं प्रपश्य देवीचन्द्रं संसारो निरसः प्रत्यभात् ।
एकदा जैसलमेर निवासि - पारखगोत्रीय - श्रेष्ठि-केसरीमलेन साकं देवीचन्द्रस्य परिचयोऽभवत् । यथाऽयस्कान्तोऽय आकर्षयति तथैव देवीचन्द्रसौम्याकृतिः प्रथमदृष्टिपाते केसरीमलमाकर्षयत् । उभयसम्बन्धो गाढ-गाढतरोऽभवत् । नित्यं सत्सङ्गो भवितुं लग्नः ।
एकदा श्रेष्ठिनोक्तम्– “अहं जैसलमेरं पुनरियर्मि, यदि त्वदाजिगमिषा तर्हि समायाहि । “बर्हिणं बलाहकगर्जनया यो हर्षो भवति तथैवेदं श्रुत्वा देवीचन्द्र-मनोमयूरोऽनृत्यत् । स्वसम्मतिमदर्शयत् । सोदर्य-जामि-नियोगं लात्वा श्रेष्ठिना सह प्रास्थित । किञ्चिद्दिनान्तरं जैसलमेरं प्राप्तौ । तत्र देवीचन्द्रः प्रतिदिनं जिनालयानां दर्शनं पूजनं च तथा ज्ञानालयेऽध्ययनं करोति स्म। तत्रत्यजिनालय- घण्टनादं श्राँवं श्रावं तस्यात्मन्यप्यलौकिकान्तर्नादो भवति स्म ।
एकदा श्रेष्ठी देवीचन्द्रं लात्वा तीर्थयात्राय निस्सृतः । विविधतीर्थदर्शनं कुर्वाणौ निजात्मनं पावयन्तौ राजगढनगरं प्राप्नुताम् । राजगढे केसरीमलगुरुः कलिकालकल्पतरुः क्रियोद्धारकोऽभिधानराजेन्द्रकोषनिर्माता प्रभुश्रीमद्विजयराजेन्द्रसूरीश्वरो विराजमान आसीत् । देवीचन्द्रं लात्वा श्रेष्ठी स उपाश्रयं गतः । गुरुदेवं वन्दित्वा तौ संमुखमासाताम् ।
10 प्रत्याग्रास्यं दृष्ट्वा केसरीमलं गुरुदेवस्तत्परिचयमप्राक्षीत् । केसरीमलेन देवीचन्द्रीयसंपूर्णवृत्तान्त ऊदे । सामुद्रिकादिशास्त्रप्रकाण्डविज्ञो राजेन्द्रसूरिस्तस्य दर्शनमात्रेण हीरकपरीक्षक इव हीरकमज्ञासीत् । गुरुदेवो 1. देवीचन्द्र पर । 2. मृत्यु । 3. चुम्बक । 4. मोर । 5. मेघ । 6. भाई । 7. बहन । 8. आज्ञा । 9. श्रुत्वा । 10. नवीनमुख ।
12