________________
साहित्यविशारद - विद्याभूषण - शान्तमूर्ति
आचार्य - श्रीमद् - विजय - भूपेन्द्र - सूरि - परिचयः
अमृतभुजामपि क्रीडास्थली मञ्जुलमालवाभिधजनपदोऽस्ति । तस्मिन् पूर्वरं भोपालनामकं पुटभेदनमस्ति, यद् नन्दनवनवदुपवनविहायश्चुम्बिभवन-नौकि-नाकिनीनिर्भनरनारीभिश्शोभितमस्ति । तत्र भद्रकपरिणामिनौ धर्मभावनायुक्तौ श्रीमालवंशीयौ सरस्वती - भगवाननामानौ दम्पती ऊषतुः । तयोः कुशल - गङ्गानाम्न्यौ सुत-सुते स्तः स्म ।
I
एकदा सुप्तसरस्वत्या ब्रह्ममुहूर्ते स्वप्नो दृष्टो यत् "सशृङ्गाराहमुत्तमपूजासामग्रीं गृहीत्वा देवालयमगममतिहर्षात् पूजां कृत्वाङ्गप्रत्यङ्गाः पुलकिताः।" स्वप्नं दृष्ट्वा प्रतिबुद्धायास्तस्याः स्वान्तनिर्झरादानन्दसलिलस्रोतः प्रवहमान– मासीद् यथा त्रिलोकीसारात्मकवस्तुप्राप्तिरभूत् । शय्यां त्यक्त्वा पूजां कृत्वा कन्तिसन्निधानमागत्य स्वप्नर्वृत्तमकथयत् । पत्या कथितम् - ते पुत्ररत्नप्राप्तिर्भविष्यति । पीयूषसधर्मवचनं श्रुत्वानन्दभृता जाता ।
आगर्भधारणात् सरस्वती-हृदये पूजादानादिविविधसुदोहदा उत्पन्नाः। पूर्णे गर्भकाले संवत् १९४० संवत्सरेऽक्षयतृतीयवासरे शुक्तिर्मोक्तिकमिव पुत्ररत्नं प्रासोष्ट । द्वादशदिने समहोत्सवं 'देवीचन्द्र' इति नाम दत्तम् ।
एतत्संसृतिस्थप्रत्येकपदार्थो नाशवानस्ति । प्रवहमाना कालगतिः। अन्तकाय कोऽपि प्राणी नागम्यः । रङकादापार्थिवं समवर्तिसमक्षं सर्वे समानाः । न कोऽपि परेतैराट्पञ्चशाखाद् मुक्तो मोक्ष्यति वा । देवीचन्द्रोऽपि यदाष्टवर्षीयो जातस्तदा पितरौ काल-कवलितौ । ततोऽधि1. देवानाम् । 2. मनोहर । 3. नगर । 4. आकाश । 5. देव । 6. देवी । 7. समान । 8. हृदय । 9 तीन लोक का समूह । 10. पति । 11. समीप । 12. वृत्तान्त । 13. समान । 14. संसार । 15-16-17. यमराज 18. हाथ ।
11