________________
व्यागृणाद्-अनागतेऽयं महान् पुरुषो भविष्यति । इयत्श्रवणमात्राद् देवीचन्द्रो गुरुदेवक्रमयोरलुठत्।
ततो गुरुदेवप्रवाहितवैराग्यदेशनास्रोतसि स्नायं स्नायं देवीचन्द्रात्मा पवित्रतमोऽभूत्। पिपासुचातक इव प्रतिशब्दं पातुं लग्नः । स्वातिभवृष्टजीवनीयं शुक्तौ मुक्ताफलं भवति तथैव गुरुदेवदेशनामृतं वैराग्यमौक्तिके रूपान्तरितम् । पूर्वभवसुसंस्कारबलात् प्रथमदेशनापाथसा एव वैराग्याङ्कुरः प्रकटीभूतः । देवीचन्द्रो गुरुदेवं भवोदधितारिणी प्रव्रज्यामयाचिष्ट । प्रशस्तदिने भागवतीं दीक्षां दातुं गुरुदेवो निरचिनोत् ।
राजगढाद् विहृत्य गुरुदेवोऽलीराजपुरमागतः । तत्रस्थसङ्घ देवीचन्द्रवृत्तान्तं कथयित्वा दीक्षायोजनं कर्तुमादिदेश । इदं श्रुत्वा श्रीसङ्घोऽत्यन्तं जहर्ष । नन्दूबाईश्राविकया सङ्घाज्ञाया महोत्सवायोजनानुमतिः प्राप्ता । उल्लासपूर्वकं संवत् १९५२ वत्सरे वैशाखशुक्लतृतीयघस्रे दीक्षितमुनिराजस्य 'मुनि-दीपविजय' इति नाम कृतम् । उपस्थापना च संवत् १९५४ संवत्सरे माघशुक्लपञ्चमीपवित्रदिने जालोरनगरेऽभवत् ।
द्वादशाब्दात्यल्पदीक्षापयार्य एव व्याकरण-काव्य-कोषन्यायशास्त्राणि कण्ठस्थीकृतानि । योगोद्वहनपूर्वकं दशवैकालिकोत्तराध्ययनाचाराङ्गप्रमुख- ग्रन्थटीकापठनपाठनं कर्तुं लग्नः । अनारतं ज्ञानपिपासा वृद्धिङ्गतासीत् । गुरुदेवो निजान्तिमावस्थां ज्ञात्वा संवत् १९६३ वर्षे पोषशुक्लतृतीयदिनेऽभिधानराजेन्द्रकोषसम्पादनकायं मुनिदीपविजयमुनियतीन्द्रविजयाभ्यां समर्प्य चिन्तातीतो जातः । एतत् स्वाभाविकं यत् सुशिष्यो धुरामूवा गुरुं निश्चिन्तं करोति । ताभ्यां बृहत्कार्यं समर्प्य संवत्
1. चरण । 2. स्नात्वा । 3. नक्षत्र । 4. पानी । 5. पानी से । 6. निश्चित कृत।
7. दिन ।