________________
|
सूक्तमुक्तावली संयमं ललौ । परमसौ कायगुप्तिं सम्यक्तया परिपालयितुं न शशाक । केवलं सप्तप्रवचनमातृरेव सुखेन पर्यपालयत् । तेनाऽत्र भवे सप्तदारान् सुखेनाऽलभत । अष्टमभार्याप्राप्तौ चास्य विलम्बो जातस्तत्र कारण - मष्टमीं कायगुप्तिमवगच्छ । गुरुभाषितमेतदाकर्ण्य समुत्पन्नवैराग्यतया तदैव पुरन्दरः श्रेष्ठी दीक्षामग्रहीत् । शुद्धं साधुधर्ममाचर्य प्रान्ते देवगतिमाप ।
तदनु पुण्यसारो नगरश्रेष्ठी बभूव । ततो धर्ममर्जयन् न्यायतो धनं वर्धयन् वार्धक्ये पुत्रं निजस्थाने संस्थाप्य भार्याभिरष्टाभिः सह संयमं परिपाल्य देवगतिमगच्छत् ।
भो भव्याः ! एषा कथाऽस्मान् यच्छिक्षयति तदाकर्ण्यताम्पूर्वं यदासौ द्यूतव्यसनी बभूव तदा नृपस्थापितं लक्षमूल्याभरणं चोरयित्वा द्यूते हारितम् । ततः पित्रा निष्कासितः कुत्रापि तरुकोटरे तस्थिवान दैवात्परिणीताभिर्नवोढाभिः सरसं भाषितोऽपि किञ्चिदपि वक्तुं नाशक्नोद् भृशं पश्चात्तापमकरोत् । सर्वमेतद् द्यूतव्यसनादेव पुण्यसारोऽसहत । पुनर्यदाऽसौ तज्जहौ तदा तस्य नानाविधं सुखमुदियाय । सर्वत्र कीर्तिः पप्रथे, प्रान्ते संयमं गृहीत्वाऽऽत्महितं कुर्वन् देवगतिमाप, अतः सर्वथा द्यूतव्यसनं हेयमेव सर्वैरिति ||२३|| अथ १२ - मांसभक्षण-विषये, इन्द्रवज्रा-वृत्तम्जे मांस लुब्धा नर ते न होवे, ते राक्षसा मानुष रूप सोहे ।
I
जे मांसभक्षी नरके हि जावे, छोडे भला ते स्वरगे सिधावे
248
॥२४॥