________________
सूक्तमुक्तावली
भोः सज्जनाः ! इह यो मांसमत्ति स नररूपधारी राक्षस एव प्रतिभाति । ईदृशो जीवो ध्रुवं नारकी नरके च पुनर्गन्ता तत्र सन्देहो नास्ति, अतो मांसाशनव्यसनं सर्वथा शिष्टजीवैस्त्याज्यम् । किञ्चनिज-प्राणवदन्येषामपि जीवानां प्राणाः संरक्षणीयाः कदापि तद्विनाशो न करणीयः, तत्त्यागात्ते दयालवः सत्पुरुषा निश्चयेन स्वर्गे प्रयान्ति
||२४||
१० - अथ मांसमहार्घतासिद्धिं कुर्वतोऽभयकुमारस्य कथामगधाधीशः श्रेणिको नृपो राजगृहे निवसति, तस्याभयकुमारो मन्त्री वर्तते । तत्रान्यदा राजसभायां कथाप्रसङ्गतः कश्चिन्मांसलोलुपः क्षत्रियो जगौ - स्वामिन् ! अद्य व आपणे मांसस्य महार्घता नास्ति । अल्पेनापि मूल्येन यथेष्टं लभ्यते तदिति श्रुत्वाऽभयकुमारो मनस्यवदत्- यो हि जीवं घातयति तस्यैव मांसं सुलभमस्ति । मम तु दुर्लभमेव प्रतिभाति, अतोऽद्य मांससौलभ्यवक्ताऽसौ येन केनाप्युपायेन प्रतिबोधनीय इति विमृश्य स मौनमाश्रित्य तस्थौ ।
अथ सभां विसृज्य नृपोऽन्तःपुरमागाच्चान्येऽपि श्रीमन्तो जनाः स्वस्थानमीयुः । अथ रजन्यामभयकुमारः प्रथमं मांससौलभ्यवादिनो महर्धिकस्य गृहमागात् | प्रधानं गृहागतं वीक्ष्य यथोचितं सत्कृत्य कृताञ्जलिः सोऽवदत्- स्वामिन् ! अद्य मे सौभाग्यमुद्घटितं यत्त्वां गृहागतं वीक्षे । प्रभो ! कार्यमादिश, तदा कुमारेणोक्तम्- सम्प्रति नृपशरीरेऽकस्मान्महान् रोग उत्पेदे, वैद्यः कथयति रोगो महानस्ति ।
I
249